पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४

  • पञ्चतन्त्रम्

[१ मित्र- खदोषनाशाय वाच्यः। उक्तञ्च- अशृण्वन्नपि बोद्धव्यो मत्रिभिः पृथिवीपतिः । यथा स्वदोपनाशाय विदुरेणाऽम्बिकासुतः ।। १७१ ।। तथा च- मन्दोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्ग-वाच्यतां यान्ति महामात्राः समीपगाः ।। १७२।। यत्तु त्वयैष शष्पभोजी स्वामिनः संकाशमानीतः, तत्वहस्ते- नाऽङ्गाराः कर्षिताः । दमनक आह-सत्यमेतत्, ममायं दोषो, न स्वामिनः । उक्तञ्च यतः- जम्बुको हुडुयुद्धेन, वयं चाऽऽषाढभूतिना । दूतिका तन्तुवायेन, त्रयो दोपाः स्वयकृताः ॥ १७३ ॥ करटक आह-कथमेतत् ?' । सोऽब्रवीत्- ४. आषाढभूति-जम्बुक-दूती-कथा । अस्ति कस्मिाश्चिद्विविक्तप्रदेशे मठायतनम् । तत्र देवशर्मा साय आत्मदोषनिरासाय । भृत्यकर्त्तव्यपालनायेति यावत् । स्वामी वाच्य =राजो- पदेष्टव्य । स्वदोषनाशाय-स्वनिन्दानिवृत्तये । वोद्धव्य -उपदेष्टव्यः । यथाऽशृ- ण्वन्नपि अम्बिकासुत धृतराष्ट्र । विदुरेण प्रतिवोधित -सदुपदेशंश्रावित ॥१७१॥ उन्मार्ग गच्छतोर्मदोन्मत्तयोभूपगजयो-समीपस्था । महामात्रा =सचिवाः, हस्ति- पकाध्यक्षाश्च । ('महावत'मन्त्री') । वाच्यता-निन्दनीयताम् ।यान्ति गच्छन्ति। 'महामात्र समृद्धे चाऽमात्ये हस्तपकाधिपे' इति मेदिनी ॥ १७२ ॥ त्वया करटकेन । एष -सजीवक शप्पभोजी-घासभोजी। स्वामिन =प्रभो. सिंहस्य । तत्-तदेतत्तदानयनम् । अङ्गाराः कर्पिता =अग्निरुप्त । ('आग वोना' 'अपने हाथ काटे वोना' )। स्वहस्तेन मार्गे अग्निवपनेन तुल्यमित्यागय । हुडु-मेषः । तन्तुवाय कौलिक । ('जुलाहा' 'कोली' 'कोष्टी'।) 'दूतिकापर कार्येणे'त्यपि पाठ ॥ १७३ ॥ १ 'स्वामिना सह सयोजित.'। २. 'परकार्येण' । ३. इय कथाऽश्लीलतया काशिक मध्यमपरीक्षापाठ्याशवहिर्भूता ।