पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

५३ अथवा साध्विदमुच्यते- सर्पाणां च खलानां च परद्रव्यापहारिणाम् । अभिप्राया न सिद्धयन्ति तेनेदं वर्तते जगत् ।। १६९ ।। अत्तुं वाञ्छति शाम्भवो गणपतेरा क्षुधातः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाऽशनम् ।। इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे तत्रान्यस्य कथं न ?, भाविजगतो यस्मात्स्वरूपं हितत्।।१७०॥ ततः खामिप्रसादरहितौ क्षुत्क्षामकण्ठौ परस्परं करटकदम- नको मन्त्रयेते । तत्र दमनको ब्रूते-'आर्य करटक ! आवां तावद- प्रधानतां गतौ। एष पिङ्गालकः सञ्जीवकवचनाऽनुरक्तः-खव्या- पारपराङ्मुखः सञ्जातः। सर्वोऽपिपरिजनोगतः। तत्कि क्रियते?। करटक आह-'यद्यपि त्वदीयवचनं न करोति, तथापि स्वामी पागैरिव वञ्चनासाधनैर्व्यवहारैरुपलक्षिता सन्त । इत्थम्भूतलक्षणे तृतीया। जलजा-मीनादय । जलजानिव-लघुमीनानिव । उपजीवन्ति वृत्तये समाश्रयन्ते । तान् भुजते ॥१६८॥ खलाना वञ्चकानाम् । अभिप्राया =मनोरथा । जगद्विनाश- वैक्लव्यादय । वर्तते-जीवति ॥ १६९ ॥ अत्तमिति । शम्भोरयं-शाम्भव -फणी=सर्प । गणपते -गणेशस्य । आखं मूपकम् । अत्तुं भक्षयितुम् । वाञ्छति इच्छति। त=शिवकण्ठाभरणं सर्प । क्रौञ्च- रिपो =कुमारस्य। 'वाहन मिति शेष । शिखी मयूर । 'अत्तु वाञ्छति ।' नागा- शन-मयूर । गिरिसुताया ('वाहन')। सिह -अत्तुं वाञ्छतीति सम्बन्ध । इत्थम् एव प्रकारेण, यत्र-शम्भोरपि जगदीश्वरस्यापि-गृह-परिग्रहस्य-कुटुम्बस्य-अनु- जीविवर्गस्य च। घटना सघटन, कलहो-विरोधभावो वा। तत्र अन्यस्य गृहे स्त्रीपुत्रभृत्यादिवर्गे कलह कथ न । अवश्यमेव स्यात् , । यत-तत्-शम्भुगृहं । भाविनो जगत =सृष्टे उत्पत्स्यमानस्य जगत । स्वरूपम् आदर्शभूतम् ॥१७०॥ स्वामिप्रसादरहितौ राजानुग्रहशून्यौ । क्षुत्क्षामकण्ठौ क्षुधाक्षीणगलौ, बुभु- क्षादिपीडितौ। स्वव्यापारस्य मृगवधादे । पराङ्मुख =विरक्त । स्वदोषनिरा- १'तौ च करटकदमनको स्वामिप्रसादरहितौ'। २ 'परिजन कोऽपि कुत्रापि गत' । इति । -