पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- एवं निश्चित्य तस्याऽन्तिकमुपगम्य-ॐ नमः शिवाये'-ति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच-'भगवन् ! असारः संसारोऽयं । गिरिनदीवेगोपमं यौवनं । तृणाऽग्निसमं जीवितं । शरदभ्रच्छायासदृशा भोगाः। स्वप्नसदृशो मित्रपुत्रभृत्यवर्ग: सम्बन्धः। ऐवं मया सम्यक्परिज्ञातं, तत्किं कुर्वतो मे संसार- समुद्रोत्तरणं भविष्यति ?'। तच्छ्रुत्वा देवशर्मा सादरमाह-वत्स! धन्योऽसि त्वम् , यत्प्र- थमे वयस्येवं विरक्तभावः । उक्तञ्च यतः- 'पूर्व वयसि यः शान्तः स शान्त' इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ॥ १७६ ।। आदौ चित्ते ततः काये सतां संपद्यते जरा। असतां तु पुनः काये-नैव चित्ते कदाचन ।। १७७ ।। यच्च त्वं मां संसारसागरोत्तरणोपायं पृच्छसि, तच्छ्रयताम्- शूद्रो वा यदि वाऽन्योऽपि चाण्डालोऽपि जटाधरः । दीक्षितः शिवमन्त्रेण सभस्माङ्गः शिवो भवेत् ।। १७८ ।। ( साफ कहने वाला)॥ १७५ ॥ तस्य-देवशर्मण । -सप्रश्रय-सप्रणयम् । यथा-गिरिनदीवेग शीघ्रमेव शाम्यति, तथा यौवनमपि शीघ्रमेवापयाति । तृणाग्निरपि शीघ्रमेव शाम्यति, तथा तद्वत् जीवनमपि शीघ्रमेव नश्यति । शरद- भ्रच्छायासदृशा =शरतुमेघच्छायासदृशा गीघ्रं विनाशिन.। भोगा =विषया । पूर्वे वयसि-यौवने । संपद्यते-जायते । जरा-श्लथीभाव । काये-जरा सम्पद्यते, मनसि न कदाचनेति सम्बन्ध ॥ १७७ ॥ शिवमन्त्रेण पञ्चाक्षरेण पडक्षरेण वा । दीक्षित गृहीतदीक्ष । दीक्षा-संस्कार- विशेष । भस्माङ्ग =भस्मोद्धूलितकाय । 'सभस्माङ्ग' इति पाठान्तरम् । शिव = शिवसदृश । 'द्विज' इति पाठे-चाण्डालादिरपि भस्मधारणादिना द्विजतुल्यो भवतीत्यर्थ ॥ १७८॥ १ 'एतन्मया' । २.'सजायते' । ३. 'अमताच' पाठान्तरम् । ४ 'सागरोत्तरणायोपाय। ५'चण्डालो'। ६ 'भरमाङ्गो द्विजो' ।