पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतनसू*

[१ मित्र- पिङ्गलक आह-'भद्र ! यद्येवं तद्गच्छ, शिवास्ते पन्थानः सन्तु'-इति। दमनकोऽपि तं प्रणम्य सञ्जीवकशब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलमनाः पिङ्गलकश्चिन्तयामास- 'अहो! न शोभनं कृतं मया यत्तस्य विश्वासं गत्वाऽऽत्माऽभि- प्रायो निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनत्वान्ममोपरि दुष्टबुद्धिः स्याद्भष्टाधिकारत्वाद्वा । उक्तञ्च- ये भवन्ति महीपस्य संमानितविमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ।। १२२ ।। तत्तावदस्य चिकीर्पितं वेत्तुं स्थानान्तरंगत्वा प्रतिपालयामि, कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तञ्च- न बध्यन्ते ह्यविश्वस्ता वलिभिर्दुर्वला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ।। १२३ ।। बृहस्पतेरपि प्राज्ञो न विश्वासं जेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ १२४ ॥ शपथैः सन्धितस्यापि न विश्वासं ब्रजेद्रिपो। राज्यलाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ १२५ ।। उभयत्र वेतनं, यस्यासौ तथा। शत्रुपक्षात्स्वपक्षाच्च गृहीतवेतन-उभ- यत्र भृत्यत्वमास्थित , तस्य भावस्तत्त्वात् । पूर्व संमानिता , पश्चाद्विमानिता, भ्रष्टाधिकारा । तस्य-राज्ञ । कुलीना =सत्कुलप्रसूता , कुलक्रमागताश्च ॥१२२॥ तं-मच्छत्रु। व्यापादयितुं निहन्तुम् । विश्वासमुपगता वलिनोऽपि-निर्बले- वध्यन्ते-हन्यन्ते ॥ १२३ ॥ वृहस्पतेरपि-सुरगुरोरपि, तत्तुल्यबुद्धेर्देवगुरुतुल्य- प्रभावस्यापि च, न विश्वासं व्रजेत् । 'यद्वा नीतिविदो वृहस्पतेरपि एतन्मतमस्ति यत्-कस्यापि विश्वासो न कार्य' इतीत्यर्थ । सन्धितस्य-उत्पादितविश्वासस्य । राज्यलाभोद्यतः इन्द्रपदाभिलापी । वृत्र -इन्द्रेण शपथैर्विश्वासं ग्राहयित्वाऽवसरे हत ॥१२५ ॥ १ विश्वस्तास्तु प्रबध्यन्ते' । पा० ।