पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

३५ अथ निराशीभूतस्तद्दारुशेपमवलोक्य श्लोकमेनमपठत्- 'श्रुत्वैव भैरवं शब्दं मन्येऽहं मेदसां निधिम् । अनुप्रविश्य विज्ञातं यावच्चमं च दारु च ॥' प्रतिनिर्गत्याऽन्तीनमवहस्थाऽब्रवीत्-'पूर्वमेव मया ज्ञातम्'- इति । अतोऽहं ब्रवीमि-न शब्दमात्राद्भतव्यम् । पिङ्गलक आह-'भोः! पश्याऽयं मम सर्वोऽपि परिग्रहो भयव्याकुलितमनाः पलायितुमिच्छति, तत्कथमह धैर्यावष्टम्भ करोमि। सोऽब्रवीत्-स्वामिन् ! नैतेषामेप दोषः। यतः स्वामि- सदृशा एव भवन्ति भृत्याः। अश्व शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेपं प्राप्मा भवन्त्ययोग्याश्च योग्याश्च ।। ११९ ॥ तत्पौरुषाऽवष्टम्भं कृत्वा त्वं तावदत्रैव प्रतिपालय, यावदह- मेतच्छब्दस्वरूपं ज्ञात्वाऽऽगच्छामि, ततः पश्चाद्यथोचितं कार्य- मिति । पिङ्गलक आह-'किन्तत्र भवान् गन्तुमुत्सहते ? ।' स आह-'कि स्वाम्यादेशात्सुभृत्यस्य कृत्यमकृत्यमस्ति किञ्चित् ? । उक्तञ्च- स्वाम्यादेशात्सुभृत्यस्य न भीः संजायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ।। १२० ।। तथाच- स्वाम्यादिष्टस्तु यो भृत्यः समं विपममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ।। १२१ ॥ जाड' 'तीखे दॉत' 'नेश' )। दारुशेष काष्ठमात्रावशिष्ट-चर्मणो विदारितत्वात् । परिग्रह =अनुयायिवर्ग । स्वामिसदृशा =राजानुरूपा । पुरुषविशेष योग्यमयो- ग्यञ्च प्राप्य । योग्यं प्राप्य योग्या , अयोग्य प्राप्य अयोग्याश्च भवन्तीत्याशयः ॥११९॥ सुभृत्यस्य स्वाम्यादेशात् दुष्करमपि राजानुशासनं निशम्य, भयं न जायते स हि सुभृत्य । अहे सर्पस्येदम्-आहेयं मुख, दुस्तरं समुद्रं वा प्रविशेत् । सम्भावनाया लिड्। 'प्रविशेद्धव्यवाहेऽपी त्यपि पाठ ॥ १२० ॥ समं सरलं, विषम-कठिनमसम्भवि च न मन्यते स सन्धार्य निकटे संस्थाप्य.॥ १२१ ॥ , 'श्रुत्वैवम्' पा०।