पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ].

  • अभिनवराजलक्ष्मीविराजितम् *

३७ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्रिदशेन्द्रण दितेर्गर्भो विदारितः ।। १२६ ।। एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोकयन्ने- काकी तस्थौ। दमनकोऽपि सञ्जीवकसकाशं गत्वा वृषभोऽय'मिति परिज्ञाय हृष्टमना व्यचिन्तयत्-'अहो! शोभनमापतितम्, अनेनैतस्य सन्धिविग्रहद्वारेण मम पिङ्गलको वश्यो भविष्यतीति। उक्तञ्च- न कौलीनान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां यावदस्येति व्यसनं शोकमेव च ॥ १२७ ॥ सदैवाऽऽपद्तो राजा भोग्यो भवति मत्रिणाम् । अत एव हि वाञ्छन्ति मत्रिणः साऽऽपदं नृपम् ।। १२८ ।। यथा वाच्छति नीरोग: कदाचिन्ने चिकित्सकम् । तथाऽऽपद्रहितो राजा सचिवं नाऽभिवाञ्छति ।। १२९ ।। एवं विचिन्तयन्पिङ्गलकाऽभिमुखः प्रतस्थे। पिङ्गलकोऽपि तमायान्त प्रेक्ष्य स्वाकार रक्षन्यथापूर्वमवस्थितः । दमनकोऽपि पिङ्गलकसकाशं गत्वा प्रगम्योपविष्टः। पिङ्गलक आह-'किं दृष्टं भवतातत्सत्त्वम् ?' । दमनक आह- 'दृष्टं स्वामिप्रसादात् ।' पिङ्गलक आह-'अपि सत्यम् ? । दमनक- सिध्यतिबगे गच्छति ॥ १२६ ॥ सम्प्रधार्य-निश्चित्य । शोभनमापतितं- युक्तं जातम् । ('अच्छा हुआ' अच्छा मौका आया)। अनेन वृषभण । एतस्य- सिहस्य। सन्धिविग्रहद्वारेण-मैत्री-युद्धादिप्रसङ्गेन । कोलीन्यात्-सत्कुलप्रसूत- त्वान्मन्त्रिणाम् । सौहार्दात् मन्त्रिणा सुहृद्भावेन वा, वाक्ये न प्रवर्त्तते-तेषा वाक्यं नानुरुभ्यते । व्यसनं विपत्तिम् ॥ १२७ ॥ भोग्यो भवति-वशे तिष्ठति । नीरोग -स्वस्थ ॥ १२९ ॥ स्वाकार रक्षन्-स्वमनोभावं गृहमान , निर्भयमिवा- स्मानं दर्शयन् । यथापूर्व-चतुर्मण्डलव्यूहेन । स्वामिप्रसादात् भवत्प्रतापेनानु- ग्रहेण च । अपि सत्यम् =कि सत्यमुच्यते भवता एतत् । ('क्या यह सच १ 'यथा नेच्छति' इति पा० । २ 'नुचिकित्सकम् । पा० ।