३२
- पञ्चतन्त्रम् *
[१ मित्र- सोऽब्रवीत्-'देव ! यद्यनाख्येयं तत्तिष्ठतु । उक्तञ्च- दारेषु किञ्चित्स्वजनेषु किञ्चिद्गोप्यं वयस्येपु सुतेपु किञ्चित् । 'युक्तं' 'न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् १०९ तच्छुत्वा पिङ्गलकश्चिन्तयामास-'योग्योऽयं दृश्यते, तत्कथयाम्येतस्याऽग्रे आत्मनोऽभिप्रायम् ।' उक्तञ्च- सुहृदि निरन्तरचित्ते, गुणवति भृत्येऽनुवर्तिनिकलने । स्वामिनि सौहृदयुक्ते निवेद्य दुःख-सुखी भवति ।। ११०॥ (प्रकाशं-) भो दमनक ! शृणोषि शब्दं दूरान्महान्तम् ?' । सोऽब्रवीत् स्वामिन् ! शृणोमि, ततः किम् ?' । पिङ्गलक आह- 'भद्र ! अहमस्माद्धनाद्गन्तुमिच्छामि।' दमनक आह- कस्मात् ?' पिङ्गलक आह-'यतोऽद्याऽस्मद्वने किमप्यपूर्व सत्त्वं प्रविष्ट, यस्यायं महाञ्छब्दः श्रूयते, तस्य च शब्दस्याऽनुरूपेण सत्त्वेन भाव्यं, सत्त्वानुरूपेण च पराक्रमेण (भाव्यम्' )-इति । दमनक आह-'यच्छब्दमात्रादपि भयमुपगतः स्वामी, तदप्ययुक्तम् । उक्तञ्च- तिष्ठतु-आस्ता तावत्, मा वद। दारेविति । दारेषु किंच्चिद्गोप्यं भवति स्वजनेषु किञ्चिद्गोप्यं भवति, महता- मनुरोधादपि युक्तायुक्तं विचायैव-वदेत, न सहसेत्यर्थ । पाटान्तरे-प्रत्ययिन विश्वस्ता एव । तथापीति शेष । संप्रकाश्यं कथनीयम् । कस्य किञ्चिदाख्येय, कस्य किञ्चित् न सर्वस्य सर्वमाख्येयम् भवतीत्यर्थ ॥१०९॥ निरन्तरं वित्तंयस्यासो निरन्तरवित्त ,तस्मिन् स्वार्पितधने, नितरामभेदभावमापन्ने इति यावत्। निरन्तर वित्ते' इति पाठे अनुकूलचित्ते इत्यर्थ । अनुवर्तिनि-स्वानुकूले। कलत्रे दारासु च । दु खं-क्लेशं दु खकारणं च । निवेद्य-उक्त्वा । जन सुखी भवति ॥११०॥ सत्त्वं-जन्तुभेद , पिशाचादिर्वा । 'सत्त्व द्रव्ये पिशाचादौ गुणे जन्तुषु' इति कोशः । उपगत =प्राप्तवान् । आतुर =व्याकुल, (घबडाया हुआ' ) वाग्भि : १ 'दारेषु किञ्चित्पुरुपस्य वाच्यं किञ्चिद्वयस्येषु सुतेषु किञ्चित् । सर्वेऽपि ते प्रत्ययिनोभवन्ति सर्व न सर्वस्य च संप्रकाश्यम् ॥'-पाठान्तरम् ।