सामग्री पर जाएँ

पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

३३ अम्भसा भिद्यते सेतुस्तथा मत्रोऽग्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ।। १११।। तन्न युक्तं स्वामिनः पूर्वपुरुषोपार्जितं कुलक्रमागतं वनमेकपदे एव त्यक्तुम् । यतो भेरीवेणुवीणामृदङ्गतालपटहशङ्खकाहलादि- भेदेन शब्दा अनेकविधा भवन्ति, तन्न केवलाच्छन्दमात्रादपि भेतव्यम् । उक्तञ्च- अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्य यस्य-महीनाथो न स याति पराभवम् ।। ११२ ।। दर्शितभयेऽपि धातरि धैर्यध्वंसो भवेन्न धीराणाम् । शोपितसरसि निदाघे नितरामेवोद्धत' सिन्धुः ॥ ११३॥ तथाच- यस्य न विपदि विषाद सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम ॥११४|| तथा च-शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ।। ११५॥ अपि च-अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाऽऽभरणस्येव रूपेणापि हि तस्य किम् ?॥१६॥ वाड्मात्रेणैव । भिद्यते पलायते,निग्रहीतुं शक्यते वा ॥१११॥ भेर्यादि वाद्यभेद । तेषा भेदेन गब्दोऽपि नानाविध इत्यर्थ । अत्युत्कटे-वलीयसि, साहसपरे, रौद्रे क्रूरतरे च । 'अत्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते। धैर्य प्राप्ते महीपस्येति- पाठान्तरम् ॥ ११२॥ धातरि-जगन्नियन्तरि विधौ । दशितं भय येन तस्मिन्-दर्शितभये-प्रति- कूले-संत्रासयति सत्यपि । निदाघे ग्रीष्मसमये । सिन्धु =समुद्र ॥ ११३ ॥ शक्तिवैकल्येन-शक्त्यभावात् । नम्रस्य-प्रणतस्य। अन्त सारशून्यतया लघीयस.= क्षुदस्य, मानहीनस्य । जन्मिन =शरीरिण । तृणस्य च तुल्यता ॥ ११५ ॥ जतुजाभरणस्य लाक्षानिर्मिताऽऽभूषणस्य । (‘लाख का बना गहना' नकली गहना )। रूपेण-संघटनाविशेपेण। (वाहरी नकली तडक भडक से ) कि 2=न किमपि प्रयोजनमित्यर्थ ॥ ११६ ॥ ३