भेद.]
- अभिनवराजलक्ष्मीविराजितम् *
कि भक्तेनाऽसमर्थन कि शक्तेनाऽपकारिणा । भक्तं शक्तञ्च मां राजन्नाऽवज्ञातुं त्वमर्हसि ॥ १०६ ॥ पिङ्गलक आह-'भवत्वेवं तावत् , असमर्थः समर्थो वा, चिरन्तनस्त्वमस्माकं मन्त्रिपुत्रः, तद्विश्रब्धं ब्रूहि-यत्किञ्चि द्वतुकामः। दमनक आह–'देव ! विज्ञाप्यं किञ्चिदस्ति ।' पिङ्गलक आह-तनिवेदयाऽभिप्रेतम् ।' सोऽब्रवीत्- 'अपि स्वल्पतरं कार्य यद्भवेत्पृथिवीपतेः । तन्न वाच्यं सभामध्ये' प्रोवाचेदं बृहस्पतिः॥ १०७ ।। तदेकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः- पटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्वप्रयत्नेन पट्कर्णः वर्जयेत्सुधीः ॥ १०८ ॥ अथ पिङ्गलकाऽभिप्रायज्ञा व्याघ्रद्वीपिवृकपुरःसराः सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्क्षणादेव दूरीभूताः, कृताश्च। ततश्च दमनक आह-'उदकग्रहणार्थ प्रवृत्तस्य स्वामिनः किमिह निवृत्या. ऽवस्थानम् ?। पिङ्गलकः सविलक्षस्मितमाह-'न किञ्चिदपि।' ('डण्ठल' 'फरडा' )। ‘एरण्डपिण्डार्कनलै' रिति पाठान्तरम् । तत्र डलयोरै- क्यात्-नला =नडा एव । दारुकृत्यं-स्तम्भादिनिर्माणगृहधारणादि कार्यम् । 'एर- ण्डकाण्डार्कन' रिति तु गौडा पठन्ति ॥ १०५ ॥ असमर्थ समर्थो वा त्वं नात्र मे विचार , केवल 'पुराणमन्त्रिपुत्र' इत्येव मे प्रियोऽसि-इत्याशय । विश्रब्ध-निर्भयं । षट्कर्णा यत्र-('श्रोतृतयेति शेप,-) असौ पकर्ण = त्रिभिर्जनै श्रुत । भिद्यते-परैर्ज्ञायते । षण्णा कर्णाना समाहार -पट्कर्ण-पुरुपत्रय, वर्जयेत्-'मन्त्रणावसरें' इति शेष । यद्वा 'षट्वर्ण मन्त्रं वर्जये'दिति सम्बन्ध । व्याघ्र -शार्दूल ('बघेरा' ) । वृक =ईहामृग ('भेडिया' )। द्वीपी व्याघ्रभेद ('चीता' 'लकडवग्या' )। तद्वच =दमनकवचनं, संसदि-सभाया। कृता =ये भावानभिज्ञा मूर्खास्ते द्वारपालै रीकृताश्च । सविलक्षस्मित-स्वाकारप्रच्छादनार्थ किञ्चिद्धासं कृत्वा ( 'सूखी हंसी हंसकर' )। 'आह' इति शेष । न किञ्चिदपि'- 'कारणमस्तीति शेष । अत्र यत्कारणमस्ति तन्नाख्येयं कस्यापीत्याशय ।