सामग्री पर जाएँ

पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०

    • पञ्चतन्त्रम् *

[१ मित्र- सीमा वृद्धि समायाति शुक्लपक्ष इवोडुराट् । नियोगसंस्थिते यस्मिन्स भृत्योऽर्हो महीभुजाम् ।।१०।। सीमा सङ्कोचमायाति वह्नौ चर्म इवाऽऽहितम् । स्थिते यस्मिन्स तु त्याज्योभृत्योराज्यं समीहता ।। १०२ ॥ तथा 'शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते, तदप्ययुक्तम् । उक्तञ्च यतः- कौशेयं कृमिजं सुवर्णमुपलार्वाऽपि गोरोमतः पकात्तामरसं शशाङ्क उधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेनगुणिनो गच्छन्ति, किं जन्मना।।१०३॥ मूपिका गृहजाताऽपि हन्तव्या स्वाऽपकारिणी। भक्ष्य प्रदानैर्मार्जारो हितकृत्प्रार्थ्यतेऽन्यतः ॥ १०४ ॥ एरण्डभिण्डाऽर्कनडैः प्रभूतैरपि सञ्चितैः । दारुकृत्यं यथा नास्ति तथैवाऽज्ञैः प्रयोजनम् ॥ १०५ ।। यस्मिन् भृत्ये नियोगसस्थिते अधिकारारूढे सति राज्ञो राज्यस्य सीमा (राज्य) प्रत्यहं वर्धते स भृत्य श्रेष्ठ ॥१०१॥ यस्मिन् नियोगस्थे अधिकार- स्थिते, यथा वहौ क्षितं चर्म सङ्कोचमेति तथैव-राज्यं हीयते-स भृत्योऽधम = त्याज्यः ॥ १०२॥ अवज्ञा-तिरकार । कौशेय-कृमिजं पट्टसूत्रं ('रेशम' )। कृमेरुत्पद्यते। सुवर्णमुपलप्रायात्पर्वतादुद्भवति। पुराणेषु गोरोमतो दूर्वोत्पत्तिर्गीयते। तामरसं पङ्कजम् । उदधे -क्षारजलाविलात्सागरात्-चन्द्रोत्पत्ति । इन्दीवरं-नीलो- त्पलं नाम स्थलकमलभेदः । गोमयात्-अवस्करात् ('खाद' 'कूडा कर्कट' 'गोबर आदि से)। रोचना-गोरोचना। 'भवतीति शेष । एवञ्च स्वगुणोदयेनैव गुणिन प्राकाश्य पूजा प्रसिद्धि च, गच्छन्ति । तत्र जन्मादिचिन्ता न कर्तव्या ॥१०३॥ गृहजातापि-अपकारकारितया मूषिका-हन्यते, मूषकविनाशकतयोपकारी मार्जारश्च अन्यतोऽपि-गृहान्तरादपि आनीय स्वगृहे रक्ष्यते इति उपकारापका- राभ्यामेवानुरागविरागौ न सम्बन्धितयेति भाव ॥१०४॥ एरण्डस्य ('रेडी')। भिण्डस्य-तरुभेदस्य, अर्कस्य-मन्दारस्य ('आक' 'मन्दार') नडै काण्डै , 'उपप्रदानैरिति पाठे-भक्ष्यादिदान. । २ 'एरण्डकाण्डाक' इति गौडा।