भेद ]
- अभिनवराजलक्ष्मीविराजितम् *
२९ 1 यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ ९३ ॥ यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा। आस्यते, सेवकः स स्यात्कलनमिव चाऽपरम् ॥ ९४ ॥ योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा। पृष्टः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥ ९५ ॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय, स भृत्योऽहों महीभुजाम् ।। ९६ ॥ ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा। यो न चिन्तयते पापं, स भृत्योऽर्हो महीभुजाम् ॥ ९७ ।। न गर्व कुरुते माने, नाऽपमाने च तप्यते । स्वाऽऽकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ।। ९८ ॥ न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च शीतातपाद्यैश्च स भृत्योऽो महीभुजाम् ॥ ९९ ।। श्रुत्वा सानामिकी वार्ता भविष्यां स्वामिनं प्रति । प्रसन्नाऽऽस्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१०॥ मिति शेष ॥ ९१ ॥ विचक्षणा =कुशला ॥ ९२ ॥ यो मृत्यो राजो दुष्करं- परै कर्तुमशक्यम् , उत्तमं हितं सुकृतं-सुसम्पादितं यथा स्यात्तथा कृत्वाऽपि राज पुरतो लज्जया स्वकृत्यं न वक्ति, तेनैव भृत्येन राजा सहायवान् स एव मृत्यो राज्ञोऽनुरूपो मृत्य इति भाव । निर्विशङ्कं यथा स्यात्तथा आस्यते स्थी- यते । 'राजे तिशेष । अपरं-स सेवक, अपरं-द्वितीयं कलत्रमिव-पत्नीव हित- कारीति मन्तव्यः॥ ९४॥ अनादिष्टोपि-राज्ञाऽनाज्ञप्तोऽपि राजो हानिकर व्यसनादिकमत्याहितमुपस्थित दृष्ट्वा तस्य विनाशय-प्रतीकाराय यतते स मृत्यो राजयोग्य ॥ ९६ ॥ स्वाकार: स्वमनोभावं । रक्षयेत् निगृहेत् । विकारं नाप्नुयात् , न प्रदर्शयेच्च ॥ ९८ ॥ भविष्या साग्रामिकी भविष्यद्युद्धविपयिणी, श्रुत्वा यो मृत्य प्रसन्नवदनो भवति स भृत्य श्रेष्ठ. ॥ १०॥