पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८

  • पञ्चतन्त्रम् *

[१ मित्र- निर्विशेषं यदा स्वामी समं भृत्येपु वर्तते तत्रोद्यमसमर्थानामुत्साहः परिहीयते ।। ८६॥ न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्परनिबन्धनः ।। ८७ ॥ भृत्यैर्विना स्वयं राजा लोकाऽनुग्रहकारिभिः । मयूखैरिव दीप्तांशुस्तेजस्यपि न शोभते ॥ ८८॥ अरैः सन्धार्यते नाभिर्नाभौ चाऽराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्र प्रवर्तते ।। ८९ ॥ शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः, कि न सेवकाः? ।। ९० ॥ राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति । ते तु संमानमात्रेण प्राणैरप्युपकुर्वते ! ॥९१ ॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥ ९२ ।। । महर्घ इति भाव. ॥ ८५ ॥ उत्तमाधमेपु निर्विशेष-भेदशून्यं यथा स्यात्तथा- सममेव-तुल्यमेव यदि स्वामी प्रभु प्रवर्त्तते तदा उद्योगसमर्थानाम् उद्योगशा- लिनामुत्तमाना भृत्यानामुत्साह परिहीयते नश्यति। 'सर्वभृत्येषु इति केचित्पठन्ति। ॥८६॥ परस्परनिवन्धन. अन्योन्याश्रित । लोकानुग्रहकारिभि-लोकोपका- रिभि । मयूखै =किरणैर्विना । दीप्तांशु =सूर्यइव-तेजस्वी अपि-प्रतापवानपि राजा, लोकानुग्रहकारिभिर्भूत्यैर्विना न शोभते ॥ ८८ ॥ अरै रथचक्रावयवैदण्डा- यमानै । नाभि रथचक्रमध्यभागपिण्डिका-धार्यते । नाभौ च अरा रथाङ्गचक्र- दण्डा । प्रतिष्ठिता =संनिविष्टा । वृत्तिचक्र-लोकयात्रारूपं चक्रं । जीविका च । प्रवर्तते प्रचलति ॥८९॥ शिरसा विधृता -मस्तके स्थापिताः, नितरां सत्कृताश्च । स्नेहेन तैलादिना च । निःस्नेहा =तैलादिरहिता । अनुरागवैकल्ये सति, कि न विरज्यन्ते कि न विकृतवर्णा भवन्ति, अपितु विरज्यन्ते एव । केशा यदि स्नेहरहिता, अनुरागवैकल्ये सति विरज्यन्ते तर्हि सेवका- किं नु । तेषा विरागे किमु वक्तव्यमित्याशय ॥ ९० ॥ अर्थमात्रं धनमेव केवलं। संमानमात्रेण= संमानेन तोपिता । प्राणैरपि स्वप्राणपरित्यागेनाऽपि । उपकुर्वते राजान'- +