सामग्री पर जाएँ

पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

२७ कनकभूपणसङ्ग्रहणोचितो यदि मणिवपुणि प्रतिबध्यते । न स विरौति ने चापिन शोभते भवति योजयितुर्वचनीयता ।।८।। यञ्च स्वाम्येवं वदति-चिरादृश्यसे' इति, तदपि श्रृयताम् । सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्वसेत् ? ॥ ८२॥ काचे मणिमणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ ८३ ॥ परीक्षका यत्र न सन्ति देशे नाऽर्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिवराटेविपणन्ति गोपाः ।। ८४ ॥ लोहिताख्यस्य च मणेः पद्मरागस्य चाऽन्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः । ॥ ८५।। हीने अनुत्तमे। अधमे नीचतमे। स्थाने अधिकारे। ते उत्तमा, तत्रैव= स्वोचिताधिकारे, न तिष्ठन्ति-न नियुज्यन्ते,-एतद्व्यं भूपतेरेव दोप । तेपाम् उत्तमाना सेवकानाम् । कनकेति । कनकमये भूषणे यत्संग्रहण स्थापनं । तस्योचित =योग्य । त्रपुणि बङ्गे ('रागा' )। स मणिर्न विरौति-नैव किञ्चिद्वदति । किञ्च न शोभते इति न, किन्तु शोभते एव । वचनीयता=निन्दा ॥ ८१ ॥ तदपि तद्विषयेऽपि । श्रूयता-मदुक्तं श्रुत्वाऽवधार्यताम् । सव्य =वाम । विशेष भेद । विद्यमाना गतिर्यस्यासौ-विद्यमानगति =आश्रयान्तरान्वेषणयोग्य ,-समर्थ । आर्य =सज्जन । नैव वसेदित्याशय ॥ ८२ ॥ वुद्धि विकल्पते-सन्दिह्यते । येषामीदृशं संशया- त्मकं ज्ञानमुत्पद्यते , तेषाम्भ्रान्तानाम् , नाममात्र.-मृत्यनामधारी कोऽपि ॥८३॥ यत्र परीक्षका न सन्ति तत्र समुद्रजानि रत्नानि मौक्तिकादीनि न अर्घन्ति-न स्वाचितं मूल्य लभन्ते । आभीरदेशे पश्चिमसमुद्रतीरवर्त्यपरान्तप्रदेशे ('कच्छ- भुज' 'काठियावाड' ) । चन्द्रकान्तमणिं । वराटै कपर्दिकाभि । ('तीन कोंडी में')। गोपा=आभीरा ('अहीर')। विपणन्ति=विक्रीणन्ति' ॥ ८४ ॥ लोहि- ताख्य =लोहितनामा मणि, ('लाल')। लोहिताक्षस्येति पाठान्तरम् । पद्म- राग =पद्मरागमणि ('मानिक')। उभयोस्तुल्यवर्णत्वेऽपि पह्मरागालोहितमणि- १'नचापि विशोभते' इति पाठान्तरम् ।