२६
- पञ्चतन्त्रम् *
[१ मित्र- दन्तस्य निष्कोपणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्य भवतीश्वराणां किमङ्ग ! वाग्धस्तवता नरेण ।।७७|| तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि पृष्ठ- गामिनो यद्यपि स्वमधिकारंन लभामहे तथापि देवपादानामेत. द्युक्तं न भवति । उक्तञ्च- स्थानेष्वेव नियोक्तव्या भृत्याश्चाऽऽभरणानि च । नहि चूडामणिः पादे 'प्रभवामीति वध्यते ।। ७८ ॥ यतः-अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते। धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥७९॥ उक्तञ्च-असमैः समीयमानः समैश्च परिहीयमानसत्कारः । धुरि चाऽनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ।।८।। यच्चाऽविवेकितया राजा भृत्यानुत्तमपदयोग्यान् हीनाऽधम- स्थाने नियोजयति, न ते तत्रैवै तिष्ठन्ति, स भूपतेर्दोषो, न तेषाम् । प्रभूणां भवतां, न प्रयोजन नास्ति किमपि कार्य। नास्माकं महाराज स्मर- तीत्याशय । प्राप्तकालम्-उचितम् । परं किन्तु । तदपीत्यपि पाठ । वक्तव्यं मया किञ्चिद्वक्तव्यमस्तीत्याशय । दन्तस्येति । निष्कोषणकेन-दन्तासक्तोच्छिष्ट- निरासादिना, कण्ड्यनकेन कर्णफलकण्डूनिराकरणेन च। ईश्वराणां राज्ञा, जनाना- मिति यावत् । अङ्गेति सम्बोधने । वाग्घस्तवता=पाणिवाणीसंयुतेन । (समय पर तृण से भी काम पड़ता है, आदमी की तो वात ही क्या है )। राज्ञा प्रयोजन- 'भवतीति शेष । अन्वयागता -कुलक्रमागता । स्वमधिकार मन्त्रिपदादिकम् । प्रभवामि अहं प्रभुरस्मि' इति कृत्वा । चूडामणि =शिरोभूषणं-पादे न वव्य- तेऽनौचित्यात् ॥ ७८ ॥ क्रमायातः-कुलपरम्परागतोऽपि भूपति गुणाना=गुण- तारतम्यस्य अनभिज्ञश्चत्-मृत्यै श्रीयते। समीयमान =समन्वीयमान । अस- दृशजनतुल्यतया गण्यमान इति यावत् । समै =स्वसमापेक्षया। परिहीयमान सत्कारो यस्यासौ तथा । धुरि अग्रे । स्वसमुचिते स्थाने । अर्थपति-स्वामिनम् । भृत्य त्रिभि. कारणैस्त्यजतीत्यर्थ । उत्तमपदयोग्यान्-उत्कृष्टाधिकारसमुचितान् , १ 'यत्ते तत्रैव तिष्ठन्ती'त्यपि केचित्पठन्ति । तत्रैव= अयोग्यस्थाने ।-