पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

२५ सरुपि नृपे स्तुतिवचनं,तदभिमते प्रेम, तविषि द्वेषः । तदानस्य च शंसा, अमत्रतन्त्रं वशीकरणम् ॥ ७६॥ करटक आह-'यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु, यथाभिलषितमनुष्टीयताम् ।' अप्रमादश्च कर्त्तव्यस्त्वया राज्ञः समाश्रये।. त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ।। सोऽपि तं प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथाऽऽगच्छन्तं दमनकमालोक्य पिङ्गलको द्वाःस्थमब्रवीत्- 'अपसार्यतां वेत्रलता, अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमन- कोऽव्याहतप्रवेश , तत्प्रवेश्यतां द्वितीयमण्डलभागो'ति । स आह-'यथाऽवादीद्भवान्'-इति । अथ प्रविश्य दमनको निर्दिष्टे आसने पिङ्गालक प्रणम्य प्राप्ताऽनुज्ञ उपविष्ट । स तु तस्य नखकुलिशालङ्कृतं दक्षिणपाणिमुपरि दत्त्वा भानपुरःसरमुवाच- 'अपि शिवं भवतः ?, कस्माञ्चिरादृष्टोऽसि ?।' दमनक आह-'यद्यपि न किञ्चिद्देवपादानामस्माभिः प्रयो- जनम्, तदैपि भवतां प्राप्तकालं वक्तव्यं, यत उत्तममध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तञ्च- नृपे-राजनि, सरुषि-क्रुद्ध सति, स्तुतिवचन-मृदुमधुरप्रशंसा, स्तुतिवाक्य- प्रयोग । तदभिमते-राजवल्लभे । प्रेम अनुराग । तद्विषि-राजविरुद्ध वस्तुनि जने च ।तदानस्य-राजदानस्य च, शसा-प्रशंसा। नस्त. मत्रतत्रे यस्मिन् तत्- अमन्त्रतन्त्र मन्त्रतन्त्ररहितं, मन्त्रतन्त्राभ्या विनाऽपि। वशीकरणं वशीकरणोपाय.। अभिमतम् अभिप्राय । पन्थानस्ते-शिवा =शोभना कुशलप्रदा शुभप्रदाश्च । सन्तु गम्यतामित्यर्थ । स =दमनक । द्वा स्थ-द्वारपाल । वेत्रलता-वेत्रयष्टी। (छडी) अव्याहत =अनवरुद्ध प्रवेशो यस्यासौ तथा। द्वितीयमण्डले अनुयायिमण्डले प्रवेगमर्हति । अतस्तत्रासन देहीत्यागय । मन्त्रिणस्तत्समानाश्च द्वितीयमण्डल- भागिन । स =सिंह । नखान्येव कुलिगानि वज्राणि, तैरलङ्कतं, पाणि-हस्तम् । उपरि-मस्तकोपरि । मानपुर सरं-ससत्कारम् । तस्य-दमनकस्य । देवपादाना= १ 'सरुषि नतिस्तुति' । २ 'अमन्त्रमूल मिति पाठान्तरम् । ३ 'पर'। ४ 'यतो न खलु राज्ञामुयोगकारणं किञ्चिन्न भवति' । पी०।।