पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

४०१ . ? मालया प्रत्ययस्ते । तद्यदि रत्नमालया प्रयोजनं तन्मया सह कमपि प्रेपय येन दर्शयामि । तच्छ्रुत्वा नृपतिराह-'यद्येवं तदह सपरिजनः स्वयमेष्यामि, येन प्रभूता रत्नमालाः सम्पद्यन्ते । वानर माह-एवं क्रियताम् ।' तथानुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलत्रभृत्या प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्ग आरोपितः सुखेन प्रीतिपूर्वमानीयते । अथवा साध्विदमुच्यते- तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते, भ्राम्यन्ते दुर्गमेष्वपि ।। ७७ ॥ तथा च- इच्छति शती सहस्रं, सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं, राज्यस्थः स्वर्गमीहते ।। ७८ ।। जीर्यन्ते जीर्यतः केशा, दन्ता जीर्यन्ति जीर्यतः । जीर्यंतश्चक्षुपी श्रोत्रे, तृष्णैका तरुणायते ॥ ७९ ।। अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानमुवाच- त्कण्ठस्थितये ये कमेव पद । 'प्रत्येय' इति च पाठ । एषोऽहं कण्ठस्थरत्नमालयो. पलक्षित तव प्रत्येय =विश्वासार्ह.। परिजन. सकलानुचरवर्गसहितः । एष्यामि गमिष्यामि। सम्पद्यन्ते- मिलन्ति । एवं क्रियता-सपुत्रपौत्रानुचरसहितेन भवता गम्यताम् । तथाऽनुष्ठिते राज्ञि सकुटुम्वे प्रचलिते सति । कलत्राणि मृत्याश्च कलत्रभृत्या. राजपत्नीसेवका- दिपरिवार । दोलाधिरूढेन प्रेडारूढेन । ( दोला='पालकी' )। स्वोत्सङ्गे-कोडे । (गोद मे)। यया तृप्णया । वित्तान्विता धनिनोऽपि । अकृत्येषु अकरणीयेपु कर्मसु। नियोज्यन्ते वलेन योज्यन्ते । दुर्गमेपु-अगम्येषु अपि स्थानेषु । भ्राम्यन्ते= नीयन्ते ॥ ७७ ॥ शती-शतरूप्यकशाली। सहस्र-तत्संख्यातं वनम् । इच्छति वाञ्छति । सहरी सहस्रसंख्यकरुप्यक्शाली। लक्ष लक्षसंख्यातम् । ईहते% वाञ्छति । लक्षाधिप =लक्षपतिः । राज्यम् इच्छति । राज्यस्थ =राज्याविप । स्वर्ग=देवराजपदम् । ईहते ॥ ७८ ॥ २६ % 3D