पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- पिवति'!। ततस्तुष्टोऽहं, प्रार्थयस्व हृदयवाञ्छितम् ।' कपिराह-'भोः कियती ते सक्षणशक्तिः ?'। स आह-'शत- सहस्रायुतलक्षाण्यपि जलप्रविष्टानि भक्षयामि, वाह्यतः शृगा- लोऽपि मां धर्षयति। वानर आह-'अस्ति मे केनचिद्भुपतिना सहात्यन्तं वैरम् , यद्यनां रत्नमालां मे प्रयच्छसि-तत्सपरिवारमपि तं भूपति वाक्प्रपञ्चेन लोभयित्वा अत्र सरसि प्रवेशयामि । सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राह-'भो मित्र ! यत्समुचितं भवति तत्कर्त्तव्यम्' इति । वानरोऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रासादेपु परिभ्रम- अनैदृष्टः, पृष्टश्च-'भो यूथप! भवानियन्तं कालं कुत्र स्थित: १, भवता ईदृग्रत्नमाला कुत्र लब्धा, यादीप्त्या सूर्यमपितिरस्करोति? वानरः प्राह-'अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनद- निर्मितम्, तत्र सूर्येऽोदिते रविवारे यः कश्चिनिमज्जति, स धनदप्रसादादीग्रनमालाविभूपितकण्ठो निःसरति । अथ भूभुजा तदाकर्ण्य स वानरः समाहूतः पृष्टश्च-भो यूथाधिप ! किं सत्यमेतत् ?, रत्नमालासनाथं सरोऽस्ति क्वापि?।' कपिराह-'स्वामिन् ! एप प्रत्यक्षतया मत्कण्ठस्थितया रत्न- अनेन विधिना पद्मिनीनालेन । हृदयवान्छित मनोऽभिलपितम् । अयुतं दश सहस्रम् । धर्षयति-मा तिरस्करोति । दृपयतीति पाठे-दूपयति-वञ्चयति। भूपतिना=राज्ञा । वाक्प्रपञ्चेन वाग्जालेन । श्रद्धयं विश्वासार्ह । वृक्षप्रासा. देपु-तरुस्कन्ध-हादिषु । या रत्नमाला । दीप्त्या स्वप्रभया। धनदनिर्मितं- कुबेरनिर्मितम् । अर्धोदिते-किञ्चिदुदिते। निमज्जति–नाति । ईदृश्या रत्नमालया विभूषित. कण्ठो यस्यासौ तथा। निस्सरति उन्मजति । भूभुजा-राज्ञा । तत्= वाक्यम् । रत्नमालासनाथं रत्नमालासहितम् । प्रत्यक्षतया स्थितया रत्नमालया (उपलक्षितः) मत्कण्ठ एव ते-प्रत्ययः विश्वासोत्पादक. । 'अस्तु' इति शेषः । मत्कण्ठस्थां मालां दृष्ट्वैव मद्वाक्ये भवता विश्वासो विधेय इत्यर्थ । यद्वा-'म-, १'दूषयति' पा० ।