पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३९७ तन्न यावत्सर्वेषां संक्षयो भवति, तावदेतद्राजगृहं सन्त्यज्य वनं गच्छामः। अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-'भोः ! भवतो वृद्धभावानुद्धिवैकल्यं सञ्जातं, येनैतद्रवीपि । उक्तञ्च- 'वदनं दशनहींनं लाला स्रवति नित्यश.। न मतिः स्फुरति कापि वाले, वृद्धे विशेषत.' ॥ ७३ ।। न वयं स्वर्गसमानोपभोगान्नानाविधान्भक्ष्यविशेषाराजपुत्रैः स्वहस्तदत्तानमृतकल्पान्परित्यज्य तत्राटव्यां कपायकटुतिक्तक्षार- रूक्षफलानि भक्षयिष्यामः। तच्छुत्वाऽश्रुकलुषां दृष्टि कृत्वा स प्रोवाच-रे रे मूर्खाः । यूयमेतस्य सुत्रस्य परिणामं न जानीथ । रसास्वादनप्रायमेतत्सुखं परिणामे विषवद्भविष्यति । तदाह कुलक्षयं स्वयं नावलोकयिष्यामि । सांप्रतं वनं यास्यामि। उक्तञ्च-'मित्रं व्यसनसंप्राप्त, स्वस्थान परपीडितम् । धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम्' ।। ७४ ।। येषान्तानि । हाणि कुलानि । कुवाक्येनान्तो यस्य तत्-कुवाक्यान्त-दुरुक्ति- विनाशि। सौहृदम् मैत्री। कुराजेन अन्तो येपान्तानि,-कुराजान्तानि। राष्ट्राणि राज्यानि । नृणा यशश्च । कुकर्मान्तं दुराचारविनाशि भवति ॥७२॥ अश्रद्धय= विश्वासानहम् । मदोद्धता =मदमत्ता । वृद्धभावात् वार्धक्यात् । बुद्धिवैकल्यं= बुद्धिलोप । वदन-मुखम् । दशनै दन्तै । लाला=मुखजलम् । स्रवति क्षरति, निस्सरति । क्वापि-विचारणीये विपये। स्फुरति प्रसरति ॥ ७३ ॥ स्वर्गेण समान उपभोगो येपान्तान् । अमृतकल्पान्-अमृततुल्यास्वादान् । अटव्या विपिने । कषाय , कटुः, तिक्त , क्षारश्चरसविशेषा, तबहुलानि अत एव रुक्षाणि-विरसानि फलानि न वयं भक्षयिष्याम इति सम्बन्धः। अश्रुभि कलुषाम् आविलाम् । दृष्टि-चक्षु । किम्पाको विपवृक्ष । तत्फलरसास्वादनमादों सुखदमपि परिमाणे मृत्युदं भवति । तथैव--एतत्सुखं मधुरमधुरानरसास्वादर्ज सुखम् । साम्प्रतम्-इदानीम् । व्यसनसम्प्राप्त विपत्तिग्रस्तं । परै शत्रुभि । पीडित-समाक्रान्तम् । स्व- १. 'धन्यास्तात' इति पा० ।