पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- एवमभिधाय सर्वांस्तान्परित्यज्य स यूथाधिपोऽटव्यां गतः। अथ तस्मिन्गतेऽन्यस्मिन्नहनि स मेपो महानसे प्रविष्टः । यावत्सूपकारेण नान्यत्किञ्चित्समासादितं तावद्धज्वलितकाष्ठेन -ताडितः। सोऽपि तेन ताडितःसन् जाज्वल्यमानशरीरशब्दाय- सानोऽश्वकुट्या प्रत्यासन्नवर्तियां प्रविष्टः । तत्र तृणप्राचुर्ययुक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुदितलोचनाः पञ्चत्वं गताः, केचिद्वन्धनानि त्रोट- यित्वा अर्धदग्धशरीरा इतश्चेतश्च हृपायमाणा धावसानाः सर्व मपि जन ( समूह-) माकुलीचक्रः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यानाहूय प्रोवाच-भोः ! प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः ? ।' तेऽपि शास्त्राणि विलोक्य प्रोचुः- 'देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण । यत्- 'केपीनां मेदसा दोषो वह्निदाहसमुद्भवः । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ७ ॥ तक्रियतामेतचिकित्सितं द्राक्, यावदेते न दाहदोषेण विन- श्यन्ति।' सोऽपि तदाकर्ण्य समस्तवानरवधमादिष्टवान् । किं स्थानं स्वभवनम् । देशभङ्गम् परसेनादिना राष्ट्रभङ्गम्। कुलक्षयं =बन्धुवर्ग- विनाशश्च । ये न पश्यन्ति-ते धन्याः श्रोष्ठाः ॥ ७४ ॥ अभिधाय उक्तवा। तान् वानरान्। अन्यस्मिन् कस्मिश्चित् । अहनि=दिने। अर्धज्वलितकाष्ठेन-उल्मुकेन । शब्दायमानः शब्द कुर्वन् । तृणप्राचुर्ययुक्तायाः तृणबहुलायाम् । स्फुटितलोचनाः अन्धा. सन्त । पञ्चत्वं-मृत्युम् । गताः प्राप्ताः हेषायमाणाः हेषारवं कुर्वन्तः । हृषा अश्वशब्द. । अन्तरे-अवसरे । सविषादः शोकाकुलः । शालिहोत्रम्-अश्ववैद्यकं-जानन्तीति-शालिहोत्रज्ञाः, तान् । गालि होत्रा अश्ववैद्यकशास्त्रप्रणेता मुनिविशेषः । चिकित्सितम्-उपचार.। द्राकर झटिति।स. राजा। तत् वैद्यवाक्यम् । आकर्ण्य-श्रुत्वा ।आदिष्टवान्-आज्ञापया- १ 'कपीना वमयाऽश्वानां वह्निदाहसमुद्भवा । व्यथा विनाशमभ्येति-' 1 पा . ।