पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित यत्पश्यति तत्सर्वं भक्षयति । ते च सूपकारा यत्किञ्चित्काष्ठं, मृण्मयं भाजनं, कांस्यपात्रं, ताम्रपानं वा पश्यन्ति, तेनाशु ताड- यन्ति । सोऽपि वानरयूथपस्तद् दृष्ट्वा व्यचिन्तयत्-'अहो ! मेष- सूपकारकलहोऽयं वानराणां क्षयाय भविष्यति। यतोऽन्नरसाss. स्वादलम्पटोऽयं मेषः, महाकोपाश्च सूपकारा यथासन्नवस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात्कदाचिदुल्सुकेन ताडयिष्यन्ति तदोर्णाप्रचुरोऽयं मेषः स्वल्पेनाऽपि वह्निना प्रज्वलिष्यति । तद्द- ह्यमानः पुनरश्वकुट्यां समीपवर्तियां प्रवेक्ष्यति। सापि तृण- प्राचुर्याज्ज्वलिष्यति । ततोऽश्वा वह्निदाहमवाप्स्यन्ति । शालि- होत्रेण पुनरेतदुक्तं; यत्-'वानरवसयाऽश्वानां वह्निदाहदोषः प्रशाम्यति' । तन्नूनमेतेन भाव्यम् । एषोऽत्र निश्चयः। एवं निश्चित्य सर्वान्वानरानाहूय रहसि प्रोवाच । यतः- 'मेपेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्यसन्दिग्धं वानराणां क्षयावहः ॥ ७० ॥ तस्मात्स्यात्कलहो यत्र गृहे नित्यसकारणः । तद्गृहं जीवितं वाञ्छन्दूरतः परिवर्जयेत् ॥ ७१ ।। तथाच- कलहान्तानि हाणि, कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि, कुकर्मान्तं यशो नृणाम् ।। ७२ ।। रान् । लघवो ये कुमारास्तेपा वाहनं तस्य योग्यं स्वल्पशरीरम् । जिह्वा- लौल्यात-मिष्टान्नलोभात् । महानसे रसवत्याम् । सूपकाराः पाचका. । क्षयाय% विनाशाय । अन्नास्वादलम्पटः मिष्टान्नरसास्वाददुर्ललितः। उल्मुकेन-ज्वलत्का- ठेन । ऊर्णाप्रचुरः ऊर्णावहुलः । अश्वकुटी अश्वशाला । प्रवेक्ष्यति-प्रवेशं करि- 'ष्यति । वह्निदाह-बहिना दाहम् । एतेन मच्छड्कितेन वानरक्षयेण । निश्चयः- मदुक्त एव निश्चयः। रहसि=एकान्ते । यत्र-गृहे । स =कलह । क्षयावहः- विनाशकारकः । 'कलहो योऽत्र वर्त्तते' इत्यपि पाठः ॥ ७० ॥ नास्ति कारणं यस्यासौ-अकारण.-निर्हेतुकः । जीवितं दीर्घजीवित्वम् । वाञ्छन्-इच्छन् । तद्गृहं दूरतः परिवर्जयेत् -इत्यर्थ. ॥७१॥ कलहेन अन्तो नाशो