पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

~VAAAAA यावदमन्प्रयातः, तावत्तत्र शिंशपापादपस्तेन दृष्टः। ततश्चिन्तित- वान्-'महानयं वृक्षो दृश्यते, तदनेन कर्तितेन प्रभूतानि पट. कोपकरणानि भविष्यन्ति'-इत्यवधार्य तस्योपरि कुठार- मुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चिद्ध्यन्तरः समाश्रित आसीत । अथ तेना- ऽभिहितम्-'भोः ! मदाश्रयोऽयं पादपः सर्वथा रक्षणीयः, यतो- ऽहमत्र महासौख्येन महासौख्येन तिष्ठामि-समुद्रकल्लोलस्पर्शनाच्छीत. वायुनाऽऽप्यायितः।' कौलिक आह-भोः किमहं करोमि ?, दारुसामग्री विना मे कुटुम्बकदम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम्। अहमेनं कर्तयिष्यामि।' व्यन्तर आह-'भो !, तुष्टस्तवाहम् , तत्प्रार्थ्यतामभीष्टं किञ्चित् , रक्षनं पादपम्' इति । कौलिक आह-'यद्येवं तदहं स्वगृहं गत्वा स्वमित्रं स्व. आगमिष्यामि ततस्त्वया देयम् ।' अथ तथा' इति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व- गृहं प्रति निवृत्तो यावदने गच्छति तावद्रामप्रवेशे निजसुहृदं नापितमपश्यत् । ततस्तस्य व्यन्तरवाक्यं निवेदयामास-यत्- 'अहो मित्र! मम कश्चिम्यन्तरः सिद्धः, तत्कथय कि प्रार्थये ?, भार्याञ्च पृष्ट्वा पट- समुद्रतट यावत् समुद्रतटपर्यन्त । तत्र-समुद्रतटे। कर्तितेन-छिन्नेन । कर्मोपकरणानि पटनिर्माणसाधनयन्त्राणि । अवधार्य=निश्चित्य । तस्य-वृक्षस्य । उत्क्षिप्तवान् छेत्तुमुत्थापितवान् । व्यन्तरा=देवविशेष । समाश्रितः स्थितः । पादप =वृक्ष । सर्वथा येन केनाप्युपायेन । महासौख्येन=अतिसुखेन । समुद्रस्य ये कल्लोला =तरङ्गा, तेपा संस्पर्शात् सम्वन्धात् , शीतेन वायुना-आप्यायित %3D हृष्ट. । दारुसामग्री काष्टनिर्मितपटोपकरण कुटुम्बपुत्रकलत्रादिकम् । अन्यत्र वृक्षान्तरे। तुष्ट =प्रसन्न । अभीष्ट प्रियं वस्तु, मनोरथ । रक्ष-परिपालय । एव-प्रसन्नी वरदानोन्मुखश्चेत् । तत तदनन्तरं । देयम् अभीष्टं ठेयम् । अथ-कौलिकप्रार्थनानन्तरं। तथा= एवमस्तु' इति। प्रतिज्ञाते-स्वीकृते सति । ग्रामप्रवेशे ग्रामपरिसरप्रवेशे । निजमुहृद-स्वमित्रम् । तस्य-सविधे'इति