पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८

  • पञ्चतन्त्रम् *

[५ अपरीक्षित रटलमाकर्ण्य क्षेत्रपः क्रोधादन्तान्धर्षयन्प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुडप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः। ततश्च सच्छिद्रमुलूखलं गले बद्ध्वा क्षेत्रपालः प्रसुप्तः। रासभो. ऽपि स्वजातिस्वभावाद्गतवेदनः क्षणेनाऽभ्युत्थितः। उक्तञ्च- 'सारमेयस्य चाऽश्वस्य रासभस्य विशेपतः । मुहूर्तात्परतो न स्यात्प्रहारजनिता व्यथा' ॥ ५६ ॥ ततस्तमेवोलूखलमादाय वृतिं चूर्णयित्वा पलायितुमारब्धः। अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मितमाह- 'साधु मातुल ! गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम्' ।। ५७ ॥ तद्भवान् मया वार्यमाणोऽपि न स्थितः। तच्छुत्वा चक्रधर आह-'भो मित्र ! सत्यमेतत् । अथवा साध्विमुच्यते- 'यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः' ॥५८ ।। सुवर्णसिद्धिराह-'कथमेतत्' ? । सोऽब्रवीत्- ७. मन्थरकौलिककथा कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित् पटकर्माणि कुर्वतः सर्वपटकर्मकाष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थ गतः। स च समुद्रतट - नम्वुके बहिर्गते सति । रासभरटनं-रासभध्वनि। (गदहे का 'रेंकना) । क्षेत्रप = क्षेत्ररक्षकः । भूपृष्ठे भूतले। उलूखलं-उदूखलम् ('ऊखली' )। गले-'रासभ- स्येति शेषः । गता वेदना-पीडा यस्यासौ-गतवेदनः। सारमेय -कुक्कुरः। विशे- षतो रासभस्य गर्दभस्यावश्यमेव । मुहूर्त-क्षणमात्रम् । व्यथा पीडा ॥५६॥ सस्मितं किञ्चिद्धासं कृत्वा । प्रज्ञा-बुद्धिः । निधन-मरणम् ॥ ५८ ॥ कौलिका तन्तुवायः। पटकर्माणि-पटनिर्माणव्यापारं। सर्वपटकर्मकाष्टानि= सकलान्यपि पट्टसाधनकाष्ठानि वेमादीनि । भग्नानि त्रुटितानि । कुठारं परम् । }