पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - कारकम् ] * अभिनवराजलक्ष्मीविराजितम् * ३८७ सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविशतिः । तानास्त्वेकोनपञ्चाशत्तिस्रो मात्रा लयात्रयः ॥ ५२ ।। स्थानत्रयं यतेः पञ्चे ? पडास्यानि रसा नव । रागाः पत्रिशतिर्भावाश्चत्वारिंशत्तत. स्मृताः ॥ ५३॥ पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ।। ५४ ॥ नान्यद्गीतात्प्रियं लोके देवानामपि दृश्यते । शुष्कस्नायुस्वराहादात् त्र्यक्षं जग्राह रावणः॥५५ ।। तत्कथं भगिनीसुत ! मामनभिज्ञ वदन्निवारयसि ?' ऋगाल आह-'माम ! यद्येवं तदहं तावद्वते.रस्थितः क्षेत्रपालमवलो. कयामि, त्वं पुनः स्वेच्छया गीतं कुरु'। तथानुष्ठिते रालम- पञ्चमाख्या. सप्त स्वराः ( ३-) पड्जग्राम-मध्यमग्राम-निषादग्रामाख्या- स्त्रयो ग्रामाः। (२१- ) स्वराणामारोहावरोहक्रमल्पा एकविंशतिमूंच्छना । ( ४९- ) मूर्छनाताना एकोनपञ्चाशत्, (३-) हस्व-दीर्घ-प्लुतभेदेन तिम्रो मात्राः । (३- ) उर , कण्ठ , शिरश्चेति स्थानत्रय । (५-) यतिर्वि- राम-पञ्चविध । ( ६ ) रागषटस्य आस्यानि-मुखानि,-षट् । (९-) शृगार-हास्य-करुण-रौद्र-वीर-भयानक-वीभत्सा-ऽद्भुत-शान्ताख्या रसा. । (३६-) रागा रागिन्यश्च पटत्रिशत् । (४०) सञ्चारि-व्यभिचारि- स्थायिभेदेन चत्वारिशद्भावाः । इत्येवं गीताज्ञाना पञ्चागीत्यधिकं शत (१८५) श्रुते श्रवणस्य, परम् अत्यन्तं सुखदं,-श्रुते =वेदस्य वा पर सारभूत, स्वयं भरताचार्येणोक्तमित्यर्थ. ॥ ५४ ॥ अस्फुटाविमौ श्लोकौ । लोके गीतादन्यत्-देवानामपि प्रिय वस्तु न दृश्यते, यत-शुष्कस्नायु- स्वराहादात्-तत्रीस्वरालापात् । (आह्लाद-वजाना)। त्र्यक्ष त्रिलोचन शिवम् । रावण.--जग्राह-प्रसादयामास । गीतेन देवा अपि प्रसीदन्तीति भाव ॥ ५५ ॥ भगिनीसुत भागिनेय । अनभिज्ञं अनभिज्ञोऽसि गीतस्येति वदन्नशम् । एवं यदि त्वं गातुमुत्सुकस्तर्हि । वृते क्षेत्रप्राचीरस्य ('वाडा')। तथानुष्ठिते= १ 'यतीनाधेति सर्वत्र पाठ । स एव युक्त । यतीनामपि स्थानत्रयमितिचार्य। पर. मत्र-(१८३) सख्यैव भवति । न (१८५) इति विचार्यम् । अतीनाञ्चेति गौडाःपठन्ति । २ 'गीतानाध' । ३ 'शुष्कस्नायुरवैरीशं सरले रावणः पुरा'-पाठान्तरम् । नव