पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० पञ्चतन्त्रम् 3 [५ अपरीक्षित अहं त्वां प्रष्टुमागतः।' नापित आह-'भद्र ! यद्येवं तद्राज्यं प्रार्थ- यस्व येन त्वं राजा भवेसि, अहञ्च त्वन्मन्त्री। द्वावपीह सुखस- नुभूय परलोकसुखमनुभवावः । उक्तञ्च- 'राजा दानपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभावात्पुनः स्वर्गे स्पर्धते त्रिदशैः सह ॥५९ ॥ कौलिक आह-'अस्त्येतत्परं गृहिणी पृच्छामि ।' स आह- 'भद्र ! शास्त्रविरुद्धमेतत्-यस्त्रिया सह मन्त्रः । यतस्ताः स्वल्प मतयो भवन्ति । उक्तञ्च- भोजनाच्छादने दद्याहतुकाले च सङ्गमम् । भूपणाद्यं च नारीणां, न ताभिर्मन्त्रयेत्सुधीः ॥ ६० ॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता। तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ६१ ॥ तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने पुरुपो योषितां यावन्न शृणोति वचो रहः ॥ ६२ ॥ रतः । शेषः । सिद्धा-प्रसन्न । मन्त्री अमात्यो भवामि । इह-संसारे, अनुभूय-उप- भुज्य । नित्यं दानपर. =दानपरायण । राजा इह कीर्तिमवाप्य तस्य-दानस्य प्रभावात्-त्रिदिवे-स्वर्गे पुनः किञ्च–त्रिदशैः सह स्पर्धते-मोदते ॥ ५९ ॥ गृहिणी भार्याम् । मन्त्र.-परामर्श । ता=स्त्रियः । स्वल्पमतयः अल्प- बुद्धयः । नारीणां-स्त्रीभ्यः। भोजनञ्च आच्छादनञ्च भोजनाच्छादने भोजनं वस्त्रन्त्र दद्यात् । एवं भूषणादिकच दद्यात् । सुधी.-धीमान् । ताभिः स्त्रीभि सह । न मन्त्रयेत् न विचारमाचरेत् ॥ ६०॥ यत्र-गृहे । कितवः धूर्त, द्यूतकृत् च । प्रशासिता सञ्चालकः । क्षयं विनाशम् । आयाति प्राप्नोति । भार्गव =शुक्राचार्य। इदम् इत्थम् ॥ ६१ ॥ सुप्रसन्नास्यः प्रसन्नवदनः । गुरुजने-पितुमातृवन्धुवर्गे । रतः अनुरक्त । रह -एकान्ते । योषिता स्त्रीणाम् । वच -वाक्य, पुरुपो यावत् न शृणोति ॥ ६२॥ १त्वं राजा अहश्च त्वमन्त्री द्वावपीह ।' पा० २ 'भवत्वेवं पर पत्नीमपि पृच्छामि। पा० 'परम्'इन्यस्य स्थाने 'तथापि त्यपि पा०॥