पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३७१ एवं क्रमेण गच्छन्तोऽवन्ती प्राप्ताः । तत्र क्षि (सि)प्राजले कृतस्नाना महाकालं प्रणम्य यावनिर्गच्छन्ति, तावद्धैरवानन्दो नाम योगी संमुखो वभूव। ततस्तं ब्राह्मणोचितविधिना संभाव्य ले सर्वे तेनैव सह तस्य मठं जग्मुः। अथ तेन ते पृष्टाः-'कुतो भवन्तः समायाताः १ व यास्यथ ? किं प्रयोजनम् ? ।' ततस्तैरभिहितम्-'वयं सिद्धियात्रिकाः, तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीति । एष निश्चयः। उक्तञ्च- दुष्प्रापाणि बहूनि च लभ्यन्ते वान्छितानि द्रविणानि । अवसरतुलिताभिरलं तनुभिः साहसिकपुरुषाणाम् ।। २८ ।। पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति । दैवमचिन्त्य बलवहलवान्ननु पुरुपकारोऽपि ॥ २९॥ अनिष्टलोकं दुष्टलोकसङ्कुलम् । भार्यापुत्रादिकं सन्त्यज्य विदेशं गच्छति । चिन्तयाऽऽकुलीकृता मतिर्यस्यासौ तथा,-पुरुष. दरिद्र. पुमानित्यर्थः ॥ २७ ॥ अवन्ती-उज्जयिनी। क्षि(सि)प्रा-तत्रत्या नदी । महाकाल.-तत्रत्य. शिव. । सम्भाव्य-संपूज्य, अभिवाद्य च । तेन-योगिना। ते-ब्राह्मणपुत्राः। यात्रा प्रयोजनं येषान्ते यात्रिका, सिद्धये यात्रिकाः,सिद्धियात्रिका.,-धनादिसिद्धये गच्छन्त । तत्र दुर्गमेऽपि तस्मिन्देशे । माहसिकपुरुषाणाम्-अवसरतुलिताभिः कार्यसाधनावसरे तुलामारोपि- ताभिः-शरीरं पातयामि कार्य वा साधयामी'त्येवं निश्चयेन सशयदोलामा- रोपिताभि । तनुभिः देहै । दुष्प्रापाणि बहूनि वाञ्छितानि धनानि लभ्यन्ते ॥ २८ ॥ नभस =गगनातु जलं कदाचिदेव वर्षाकाले एव तडागादौ पतति= आगच्छति । परन्तु खाते-खननादिश्रमनिष्पन्ने कूपादौ । जलाशये तु-पाताल- तोऽपि-नीचैरतिदूरतरप्रदेशादपि, जलमेति-आगच्छति । अतः दैवम् अदृष्टं यद्यपि वलवत् , ननु तथापि, पुरुषकार:=परिश्रमादिरूप. पुरुषार्थोऽपि, अदृष्ट- बदेव वलवानेव । तथाहि वर्षासु दैवात् क्षेत्रादौ जलं लभ्यते, पर व्यतीतासु वर्षास्वपि पुरुषार्थपराः कृपीवलाः कूपादितोऽपि निम्नतरादपि जलमुद्धृत्य कृषि निष्पादयन्तीति-पुरुषार्थस्य दैवादपि महत्त्वं सूचितम् ॥ २९ ॥