पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- अभिमतसिद्धिरशेपा भवति हि पुरुषस्य पुरुपकारेण । 'दैव'मिति यदपि कथयसि पुरुपगुणः सोऽप्यदृष्टाख्यः ॥ ३० ॥ द्वयमतुलं गुरु लोकात् 'तृणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतच्चरितं, चरितं धंदाराणाम् ।। ३१ ॥ क्लेशस्याऽङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिलक्ष्मीम् ॥ ३२ ॥ तस्य कथं न चला स्यात्पत्नी विष्णोनृसिहकस्यापि ? । मासांश्चतुरो निद्रां यः सेवति जलगतः सततम् ॥ ३३ ॥ - पुरुषस्य-अभिमतसिद्धिा अभीष्टसिद्धिः । अशेषा-सकलाऽपि । पुरुषका रेण-पुरुषार्थेन । देवमिति यत् त्वं कथयसि लोका वा वदन्ति सोऽपि पुरुषवत्ता अदृष्टाख्यो गुण एव, नातो भिन्नः । दैवमपि पुरुषाधीनमिति यावत् , अतो दैवं विहाय यत्नः करणीय.। लोकात जगतोऽपि । द्वयं एतदुभयम् । अतुलम् अतुलनीयम् , अतएव गुरु-अतिमहत् । किन्तव्यमत आह-तृणमिवेति । प्राणांश्च तृणमिव साह- सिकाः साधु तुलयन्ति तुलायामारोपयन्ति । भयस्थानसहस्रेषु प्राणानारोप्य विजयं लभन्ते इति यावत् । एतदद्भुतं चरितं प्रथमम् । उदाराणां दधीचि- कर्णादीना चरितञ्च-द्वितीयम् । एतद्वयं लोकादपि गुरुतरमित्याशयः। 'लोके' इति पाठस्तु सुन्दरः। अत्राऽशुद्धे 'भयमतुल'मिति मुद्रिते पाठे परश्शतेभ्यो वत्सरेभ्योऽपि भ्राम्यन्तो विद्वांसोऽस्माभिर्हन्त ! पाठं संशोध्य क्लेशान्मोचिताः॥३१॥ क्लेशस्या-शरीरम् । अदत्त्वा क्लेशमननुभूय । सुखं यथा स्यात्तथा सुखानि मानवैर्न लभ्यन्तेऽत्र जगति । यतः-मधुभित्-विष्णुरपि-समुद्रमथन. श्रान्तैर्वाहुभिः लक्ष्मीमाश्लिष्यति। समुद्रमथने कृते सत्येव विष्णुना लक्ष्मी. प्राप्ता न सुखं सुप्तेनेति उद्योगेनैव समीहितसिद्धिरित्यर्थः॥ ३२॥ विष्णुपत्नी लक्ष्मीश्चञ्चलेति लोकप्रसिद्धिस्तत्राह-तस्येति । नृसिहकस्यापि पुरुषश्रेष्ठस्य, नृसिहावतारभृतश्च,-विष्णोरपि-का कथाऽन्यस्य,-पत्नी भार्याऽपि- का कथा सम्पत्त्यन्तरस्य । पक्षे विष्णो. पत्नी लक्ष्मीरित्यर्थः । कथं चला चञ्चला, विनष्टा च न स्यात् , यः-जलगतः क्षीराब्धिगतः । डलयोरैक्यात-जडजन- मध्यगतश्च, चतुरो मासान्-मासचतुष्टयं यावत् , निद्रा सेवते स्वपितिः । विष्णु- म .