पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७०

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- भार्या साधु सुवंशजाऽपि भजते नो, यान्ति मित्राणि च न्यायारोपितविक्रमाण्यपि नृणां येपां न हि स्याद्धनम् ॥२४॥ शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शस्त्राणि विदाङ्करोतु । अर्थ विना नैव यशश्च मानं प्राप्नोति मोऽत्र मनुष्यलोके ।।२५।। तानीन्द्रियाण्यविकलानि तदेव नाम साबुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणाविरहितः पुरुपः स एव बाह्यःक्षणेन भवतीति विचित्रमेतत्। तद्गच्छामः कुत्रचिदर्थाय ।' इति संमन्त्र्य स्वदेशं पुरञ्च स्वसुहृत्सहितं बान्धवयुतं गृहञ्च परित्यज्य प्रस्थिताः। अथवा साध्विसुच्यते- सत्यं परित्यजति, मुञ्चति बन्धुवर्ग शीघ्रं विहाय जननीमपि जन्मभूमिम् । सन्त्यज्य गच्छति विदेशमनिष्टलोक चिन्ताकुलीकृतमतिः पुरुपोऽत्रलोके ।। २६ ।। भवन्ति वर्द्धन्ते, सुवंशजाऽपि भार्या साधु-यथावत्प्रेम्णा नो भजते नैव सेवते । मित्राणि च-न्यायेनारोपिता विक्रमा यैः तानि-न्यायारोपितविक्रमाणि-न्याय- मार्गावलम्बितपराक्रमशालीनि, शूराणि । यान्ति दूरीभवन्ति, येपा धनं न स्यादि- त्यर्थः ॥२४॥ सुभगः-सौभाग्यशाली । वाग्मी वाचोयुक्तिपटु । विदाकरोतु= जानातु । विदाकरोति' इतिप्रचलितः पाठः। अर्थः धनं । मर्त्यः पुमान् ॥२५॥ अविकलानि अनुपहतानि इन्द्रियाणि तान्येव-पूर्ववदेव वर्तन्ते, एवं तदेव नाम-नामधेयं, सैव अप्रतिहता वुद्धिः, तदेव वचनं, तथापि अर्थोप्मणा-धनश- त्या । विरहित. रहितः पुरुषः। क्षणेन वाह्य =सर्वलोकतिरस्कृतो भवतीति अहो ! धनमाहात्म्यमित्यर्थः। अर्थाय धनमुपार्जयितुं । संमन्त्र्य-विचार्य । स्वसुहृत्सहितं पुरं, वान्धवयुतं गृहमित्यन्वयः। साधु-युक्तमेव, सत्य त्यजति, मिथ्या भाषते । जननीमपि जन्मभूमि विहाय शीघ्र वन्धुवर्ग मुञ्चति । पाठान्तरे १भार्या नोत्तमवशजाऽपि भजते नो यान्ति मित्राणि च न्यायारोपित- विक्रमानपि नरान्' इति लिखितः पाठो युक्ततरः । तत्र न्यायारोपितविक्रमान्-शूरा. नपि नरानित्यर्थः । २. 'शेते हकार इव सङ्कुचिताखिलाङ्ग.' पा० । ३ 'अभीष्ट- लोक' पा० । सभीष्टसिद्धथै' इति तु गौडाः पठन्ति । ४ 'पुरुप. किमन्यत्' । पा० । स