पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

केनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा । अत्रान्तरे ब्राह्मणो गृहीतनिर्वापः समायातो यावत्पश्यति तावत्पुत्रशोकाभितप्ता ब्राह्मणी प्रलपति-'भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्वचः, तदनुभव साम्प्रतं पुत्र- मृत्युदुःखवृक्षफलम् । अथवा साध्विमुच्यते-- अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ।। २२ ।। ब्राह्मण आह-'कथमेतत् ?' | साप्राह-- २. लोभाविष्टसिद्धिच्युतचक्रधरकथा । कस्मिश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रता गता वसन्ति स्म । ते चापि दारिद्योपहता मन्त्रं चक्रुः-अहो ! धिगियं दरिद्रता । उक्तञ्च- वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥२३॥ तथाच- स्वामी द्वेष्टि सुसेवितोऽपि, सहसा प्रोज्झन्ति सद्वान्धवा, राजन्ते न गुणास्त्यजन्ति तनुजाः, स्फारीभवन्त्यापदः । चिक्षेप-पातयामास । व्यापाद्य-हत्वा । पुत्रवधशोकेन-नकुलमरणशोकेन । गृही- तनिर्वाप =गृहीतप्रतिग्रह । (निरुपसृष्टयपधातोर्दानार्थताया 'प्रादेशनं निर्वपण'- 'मित्यमरेणैवोक्तत्वात् )। दारिबोपहताः दारिद्यदु खिता । मन्त्रः परामर्श.। वरं श्रेष्ठं । जनेन होन=निर्जनं। वहुकण्टकावृतं नानाकण्टकाकुल । परिधाने परिधानस्य वा वल्कल-परिधानवल्कल-भूर्जपत्रादिपरिधानम् ॥ २३ ॥ स्वामीति। निर्धनेन-सुसेवितोऽपि स्वामी तं द्वेष्टि । सद्वान्धवा सहसा तं प्रोज्झन्ति । तस्य गुणा न राजन्ते, तनुजा पुत्रा अपि तं त्यजन्ति, आपद स्फारी- १ गृहीतनिःस्रावक इति पाठे-गृहीतभिक्ष इत्यर्थः । (निस्रावक-='निछरावल 'दान')।