पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित एवं च भाषते लोक श्चन्दनं लोक शीतलम्' । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ! ॥२०॥ सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥२१॥ अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जलकुम्भमादाय पतिमुवाच-'ब्राह्मण! जलार्थमहं तडागे यास्यामि, त्वया पुत्रोऽयं नकुलाद्रक्षणीयः। अथ तस्यां गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थ ऋचिन्निर्गतः । अत्रान्तरे दैववशात् कृष्णसर्पो बिलान्निष्क्रान्तः । नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातू रक्षणार्थं सर्पेण सह युद्धा सर्प खण्डशः कृत(त)वान् । ततो रुधिराप्लावितवदनः सानन्दं स्वव्यापारप्रकाशनार्थ मातुः संमुखे गतः। मातापि तं रुधिरक्लिन्नमुखमवलोक्य शङ्कितचित्ता 'नूनमनेन दुरात्मना मम दारको भक्षितः'-इति विचिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप। एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहे आगच्छति, तावत्सुतस्तथैव सुप्त- स्तिष्ठति । समीपे कृष्णसर्प खण्डशः कृत्तमवलोक्य पुत्रवधशो- क्षितः । व्यसनी दुर्वृत्त । खल =क्रूरः ॥ १९ ॥ 'चन्दनं किल शीतल'मित्येवं हि लोको यद्यपि भाषते, तथापि पुत्रगात्रस्य संस्पर्शश्चन्दनादपि शीतलः सुख- प्रदश्चेत्यन्वयः। किलेति प्रसिद्धौ। पुत्रगात्रस्य-पुत्रशरीरस्य । स्पर्शस्तु-चन्दनातू- अतिरिच्यते-अधिक सुखद इत्यर्थः ॥ २० ॥ सौहृदस्य=पित्रादीनां परममान्यानां सौहृदं स्नेहमपि,न तथा वाञ्छन्ति यथा पुत्रस्य पुनकृतं-बन्धन-वन्धनादिक्लेशं मपि मन्यन्ते इत्यर्थः । 'सौहृदस्य'ति सम्बन्धसामान्यविवक्षया षष्ठी। केचित्तु-सुहृदेव सौहृद., तस्य सौहृदस्य= सुहृदोऽपि । मित्रस्य, जनकस्य=पितुः, हितस्य हितैषिणः, प्रपालकस्य-रक्षितुश्च । बन्धनं स्नेहपाशं, लोक :-न वाञ्छन्ति=न तथा मन्यन्ते, यथा-यादृक् , पुत्रस्य बन्धनं तत्कृतं स्नेहपाशं वाञ्छन्तीत्यर्थमाहुः॥ २१॥ साब्राह्मणी। तडागे जलाशयं प्रति। सुतनिर्विशेषलालितं-पुत्रवत्परि- पालितम् । रधिराप्लावितवदनः रुधिरलिप्तमुखः, रुधिरक्लिन्नमुखं रुधिरामुखं । १ 'सह्दोऽपि न वान्छन्तीति पाठस्तु शोभनः। ,