पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

एवं संप्रधार्य भूयोऽप्यचिन्तयत्-'तदहमनशनं कृत्वा प्राणा- नुत्सृजामि, किमनेन नो व्यर्थजीवितव्यसनेन ? ।' एवं निश्चयं कृत्वा सुप्तः। अथ तस्य स्वप्ने पद्मनिधिः क्षपणकरूपी दर्शनं दत्वा प्रोवाच- 'भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्वपुरु- षोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि । ततस्त्व- -याऽहं लगुडप्रहारेण शिरसि ताडनीयः, येन कनकमयो भूत्वा- अक्षयो भवामि। अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश्चिन्ताचक्रमारूढस्तिष्ठति- 'अहो ! सत्योऽयं स्वप्नः, किंवा असत्यो भविष्यति ?, न ज्ञायते। अथवा नूनं मिथ्याऽनेन भाव्यम् , यतोऽहमहर्निशं केवलं वित्त- मेव चिन्तयामि । उक्तञ्च- व्याधितेन सशोकेन चिन्ताग्रस्तेन जन्तुना। कामार्तेनाऽथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥ ११ ॥ एवम् इत्थं । सम्प्रधार्य=निश्चित्य । भूयोऽपि-पुनरपि । तत्-यतो दरि- द्रस्य जीवनं धिक् अत , प्राणान् =जीवनम् , उत्सृजामि-त्यजामि । 'उज्झामी- ति पाठान्तरम् । न:-अस्माकं, व्यर्थ निरर्थकं यत् जीवनं तस्मिन् व्यसनम् = उत्कटेच्छा। तदेव व्यसनमिति वा । एवं निश्चयं मरणनिश्चयम् । पद्मनिधिः= पद्माख्यो निधिभेद । ( निधि-खजाना)। क्षपणक -जैन-बौद्ध-संन्यासी। श्रेष्टिन् हे साधो । । वैराग्य-जीवने औदासीन्यम् । पूर्वैः पुरुषैः-पितृपितामहा- दिभि । उपार्जित वाणिज्येन सञ्चित । तत्-तस्मात् । अनेन रूपेण-क्षपणक- रूपेण । येन-ताडनेन । कनकमया सुवर्णमयः । अक्षयः बहुशो व्यये कृते -सत्यपि अविनाशी। भवामि भविष्यामि । वर्तमानसामीप्ये लट् । अथ-स्वप्नानन्तरं। चिन्ताचक्र चिन्तापरम्पराम् । आरूढः अधिरूढः, प्राप्त । चिन्तातुर इति यावत् । वित्तं धनम् । व्याधितेनेति । व्याधितेन-रुग्णेन । सशोकेन शोकाकुलेन । चिन्ता- प्रस्तेन=चिन्तातुरेण। जन्तुना मनुष्येण । मत्तेन मद्यादिना उन्मत्तेन । निरर्थकः