पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२

  • पञ्चतन्त्रम् *

[५ अपरीक्षित 1 एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पादप्रक्षालनाय आहूतः । अत्रान्तरे च यथानिर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्टमना आसन्नकाष्ठदण्डेन तं शिर. स्यताडयत् । सोऽपि सुवर्णमयो भूत्वा तत्क्षणाद्भमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्वगृहमध्ये कृत्वा नापितं सन्तोष्यं प्रोवाच-'तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! कस्यचिन्नाख्येयोऽयं वृत्तान्तः नापितोऽपि स्वगृहं गत्वा व्यचिन्तयत्-'नूनमेते सर्वेऽपि नग्नकाः शिरसि दण्डहताः काञ्चनमया भवन्ति । तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशा व्यतिचक्राम । अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणक- विहारं गत्वा, जिनेन्द्रस्य प्रदक्षिणत्रयं विधाय, जानुभ्यामवनि =निष्फल. ॥ ११॥ अन्तरे-मध्ये । तस्य-श्रेष्टिनः । पादप्रक्षालनाय पादशौ- चाय, पादरञ्जनाय च । माङ्गलिकेषु कृत्येषु नखरञ्जनाय च नापिताः सौभाग्य- वतीना प्राधुणिकानाञ्च जलेन पादप्रक्षालनं कुर्वन्तीति लौकिकम् । (पादप्रक्षालनं= पैर पखारना, या नहछू)। यथानिर्दिष्टः- पूर्व स्वप्ने दृष्टः सः श्रेष्ठी, तं पद्मनिधि । प्रहृष्टमना =प्रसन्नः सन्। यथासन्नकाष्ठदण्डेन निकटवर्तिदारुदण्डेन। तं-क्षपणकं । तस्मिन्नेव काले । निभृतं सुगूढं । कृत्वा निधाय । सन्तोष्य धनादिना पुरस्कृत्य। तदेतत्-पुरतो दृष्टं । भद्रः ! साधो! पुन =किन्तु । नाख्येय =न कथनीय. । नूनम् अवश्यं । नग्नकाः-क्षपणकाः । प्रभूतान्=प्रचुरान् । प्रभूत=विपुलं। हाटक-सुवर्ण । चिन्तयतः विचारयतो नापितस्य । महता कष्टेन अतिकप्टेन कथञ्चित् । व्यतिचक्राम-व्यतीयाय प्रगुणीकृत्य-सज्जीकृत्य । क्षपणकविहार.-बौद्ध-जैनभिक्षुनिवासभूतो मठः । जिनेन्द्रस्य बुद्धस्य जिनस्य च प्रतिमायाः। वक्त्रद्वारे न्यस्तमुत्तरीय- स्याऽचलं येन स. उत्तरीयैकदेशविहितमुखप्रदेशः । एषा हि जैनादिमतसिद्धा १ 'भार्यायाः कश्चिन्नापित. पादप्रक्षालनायागतः।' पा० ।