पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६०

  • ,पञ्चतन्त्रम् *

[५अपरीक्षित गगनमिव नष्टतारं, शुष्कमिव सरः, श्मशानमिव रौद्रम् । प्रियदर्शनमपि रूक्षं भवति गृहं धनविहीनस्य ॥ ६॥ न विभाव्यन्ते लघवो वित्तविहीनाः पुरोऽपि निवसन्तः । सततं जातविनष्टाः पयसामिव बुद्रुदाः पयसि ।।७।। सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेऽपि । आध्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः ॥ ८॥ विफलमिह पूर्वसुकृतं, विद्यावन्तोऽपि कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ! ॥९॥ 'लधुरय'माह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यद्यत्कुर्वन्ति परिपूर्णाः ॥१०॥ नष्टतारं विलुप्तनक्षत्रशोभ-गगनाङ्गणमिव । गृहपक्षे-नष्टतारं नष्टशोभम् । शुष्कंगतजलं, सर इव-जलाशय इव, रौद्रभीषणं । प्रियदर्शनं सुन्दरम् । रूक्षम्-अजातसंस्कारम् , अशोभनञ्च सौभाग्यरहितञ्च । धनविहीनस्य= दरिद्रस्य ॥६॥ विभाव्यन्ते-परिचीयन्ते । वित्तविहीना अतएव-लघवः-तुच्छाः, पुरोऽपि% अग्रेऽपि, निवसन्तः तिष्ठन्तः । जातविनष्टाः उत्पन्नविनष्टाः । पयसि-जले पयसा बुद्धदा इव । ॥ ७ ॥ कुशलं प्रवीणं, सुजन सुशीलं, विकले रहिते, आत्ये- धनशालिनि जने, रज्यन्ति-प्रसीदन्ति । जननिवहाः लोकसमूहाः ॥८॥ पूर्वसुकृतं प्रयत्नेन पूर्व कृतमपि पुण्यं । विफलं-नेह सहायता करोति । यतः-विद्यावन्तः- कृतश्रमाः तपस्विनः, यस्य-मूर्खस्यापि विभवः धनं स्यात्तस्य दासतां यान्ति= तमाश्रयन्ते। अधीतविद्या अपि निर्धनं जडमपि धनिनमाश्रयन्ते इति पूर्वो- पार्जितं तपोविद्यादिकं सकलमत्र विफलमेवेत्याशयः॥९॥ काम यथेच्छं, गर्जन्तं स्वगौरवोन्मत्तम् , निर्भयं । पयसां जलाना, पति- नाथं- मेघ, समुद्रं वा। लोकाः जनाः, अयं लघु: क्षुद्रोऽयं मेघः, इत्थं न नैव आह= न कथयति, न तं निन्दतीत्यर्थः। परिपूर्णाः धनिनः, पूर्णाश्च । इह-लोके । यद्यत्कुर्वन्ति तत्तेषां न लजां करोति। अनुचितमपि कुर्वन्तो धनिनो लोके न लज्जन्ते, लोका अपि च न तं निन्दन्ति-इत्यहो । धनमहिमेत्याशयः॥१०॥ १'विरस इति हसति न जनः' । पा० । ,