पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- + अथ अपरीक्षितकारकम् --- अथेदमारभ्यतेऽपरीक्षितकारकं नाम पञ्चमं तन्त्रम् । यस्या- ऽयमादिमः श्लोकः- कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनाऽत्र यत्कृतम् ॥१॥ तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणि द्रो नाम श्रेष्ठी प्रतिवसति स्म। तस्य च धर्मार्थकाममोक्षकर्माणि कुर्वतो विधिवशाधनक्षयः संजातः । श्रीगुरुप्रसादशास्त्रिविरचिता अभिनवराजलक्ष्मीः । लोलल्लोलम्बझाङ्कारपूरिताशाकदम्बकम् । वन्दे भूतिसितं सन्ध्यारुणं गाणपत महः ॥१॥ नुमोऽनवद्यसद्धृद्यविद्योद्योतितदिङ्मुखान् । मरुमण्डलमार्तण्डस्नेहिरामाभिधान् गुरून् ॥२॥ न परीक्षितम्-अपरीक्षितम् , अपरीक्षितस्य कारकः-अपरीक्षितकारक । तमधिकृत्य कृतश्च प्रकरणम्-उपचारात्-अपरीक्षितकारकम् । तन्त्रप्रकरणं । यस्य अपरीक्षितकारकस्य । अयं वक्ष्यमाण. 'कुदृष्टमित्यादिः। कुदृष्टं न तत्त्वतो दृष्टं । कुपरिज्ञातं न यथावद्विचारितं । कुश्रुतं न सम्यगाकर्णितं । कुप- रीक्षितं न यथावत् नितिं । तत् ईदृशं कर्म, यथा नापितेन कृतं तथा । नरेण= विदुषा पुरुषेण । न कर्त्तव्यं नाचरणीयम् । किन्तु विदुषा विचार्यैव कार्य करणीयमित्यर्थः ॥ १॥ यथा येन प्रकारेण । अनुश्रूयते कर्णाकर्णिकया वृद्धपरम्परया श्रूयते । जनपदे-देशे। 'भवेजनपदो जानपदोऽपि जनदेशयो.' इति विश्वः । श्रेष्ठी धनी । तस्य श्रेष्ठिनः । धर्मश्च अर्थश्च कामश्च मोक्षश्च ते, तेषा कर्माणि-यज्ञ- १ 'अपरीक्षितकारित' । २ 'कुमतिशातम्' । ३ 'कुकृतम्।४'माणिभद्र'इति पाठा०।