पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ] * अभिनवराजलक्ष्मीविराजितम् * ३५७ अथाऽसौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्ट:- “भोश्चित्राङ्ग! कथयाऽस्माकं देशान्तरवार्ताम् । कीदृग्देशः । कि चेष्टितं लोकस्य ? । क आहारः ? | कश्च व्यवहारस्तत्र'- इति । स आह-किं कथ्यते विदेशस्थ स्वरूपविषये ? । सुभिक्षाणि विचित्राणि, शिथिलाः पौरयोषितः । एको दोपो विदेशस्य स्वजातिर्यद्विरुध्यते ॥ ७९ ॥ सोऽपि मकरस्तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरमनु- ज्ञाप्य स्वाश्रयं गतः। तत्र च (तेन ) स्वगृहप्रविष्टेनाऽऽतता- यिना सह विग्रहं कृत्वा, दृढसत्वावष्टम्भाच्च तं व्यापाद्य, स्वाश्रयं च लब्ध्वा, सुखेन चिरकालमतिष्ठत् । साध्विदमुच्यते- अकृत्वा पौरुपं या श्रीः किं तयाऽपि भोग्यया ? | जरद्भवः समश्नाति दैवादुपगतं तृणम् ।। ८० ।। इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे लब्धप्रणाशं नाम ॐ चतुर्थ तन्त्रम् ® दुर्भिक्षभयात् । गृहमेधिनः गृहस्थस्य । प्रमादेन अनवेक्षणेन । स्वरूपविषयः= स्वरूपम् । 'स्वरूपविषये' इति गौडाः पठन्ति । अनुज्ञाप्य आपृच्छा। ('पूछ कर' 'आज्ञा लेकर)। आततायिना-परद्रव्यापहारकेण दस्युना । विग्रह युद्धम् । दृढसत्त्वावष्टम्भनाच्च दाावलम्बनाच्च। या भी:-इत्यस्य-'लभ्यते' इति शेषः । जरद्वा वृद्धवृष । (बूढा वैल)। उपनतं लब्धम् ॥ ८० ॥ इति श्रीगुरुप्रसादशास्त्रिणा विरचितायामभिनवराजलक्ष्म्यां पञ्चतन्त्रे लब्धप्रणाशं नाम चतुर्थ तन्त्रम् । १. 'तयाऽलसभोग्यया'-इति-पाठान्तरम् । २ 'कुरङ्गोपीति पाठान्तरम् ।