पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्ध- भाजं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं बुभुजे। एवं त्वमपि तं रिपुं स्वजातीयं युद्धेन परिभूय दिगन्त- भाजं कुरु, नो चेत्पश्चाद्वद्धमूलादस्मात्त्वमपि विनाशमवाप्स्यसि। उक्तञ्च यतः- सम्भाव्यं गोषु सम्पन्न, सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं, सम्भाव्यं जातितो भयम् ॥७७|| सुभिक्षाणि विचित्राणि शिथिलाः पौरयोषितः । एको दोपी विदेशस्य स्वजातिय द्विरुध्यते ।। ७८ ॥ मकर आह-कथमेतत् ?' | वानरोऽब्रवीत्- ११. विदेशगतसारमेयकथा । अस्ति कस्मिश्चिदधिष्टाने चित्राङ्गो नाम सारमेयः। तत्र चिरकालं दुर्भिक्षं पतितम् । अन्नाऽभावात्सारमेयादयो निष्कु- लत्तां गन्तुमारब्धाः । अथ चित्राङ्गः क्षुत्क्षामकण्ठस्तद्भयाद्देशा- न्तरं गतः । तत्र च कस्मिंश्चित्पुरे कस्यचिद्गृहमेधिनो गृहिण्याः प्रमादेन प्रतिदिनं गृहं प्रविश्य विविधान्यन्नानि भक्षयन्परां तृप्ति गच्छति । परं तद्गृहाद्वहिनिष्क्रामन्नन्यैर्मदोद्धतसारमेयः सर्वदिक्षु परिवृत्य सर्वाङ्ग दंष्ट्राभिर्विदार्यते । ततस्तेन विचिन्तितम्-'अहो! वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते, न च कोऽपि युद्धं करोति, तदेवं स्वनगरं व्रजामि'-इत्यवधार्य स्वस्थानं प्रति . जगामा तदभिमुखकृतप्रयाण.-शृगालाभिमुखं युद्धाय चलितः। तं शृगालम् । दिगन्तभाजदूर निस्सारितम्। त्वम् मकरः। बद्धमूलात्=स्थिरीभूतात् । सम्पन्न-सम्पत्तिः, धनम् । सम्भाव्यं सम्भावनीयम् । तर्कणीयमिति यावत् । ॥७७॥ विचित्राणि अतिभूमिगतानि। सुभिक्षाणि-अन्नादिसम्पत्तिः। शिथिलाः= अन्नादिरक्षणे उदासीनाः । ( लापरवाह )। पौरयोषित. नगरवासिस्त्रियः। स्वजातिः आत्मीय एव कुक्कुरादिः ॥ ७८ ॥ सारमेय. कुक्कुरः। तत्र अधिष्टाने । निष्कुलतां वंशनाशं। तद्भयात्