पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

ततो विभवक्षयादपमानपरम्परया परं विषादं गतः। अथान्यदा रात्रौ सुप्तश्चिन्तितवान्-'अहो धिगियं दरिद्रता । उक्तं च- शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य ।। २ ।। मानो वा दो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्व प्रणश्यति सम-वित्तविहीनो यदा पुरुषः ॥३॥ प्रतिदिवंसं याति लयं वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बभरचिन्तया सततम् ॥४॥ नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्द विभवस्य । घृतलवणतैलतण्डुलवस्त्रेन्धनचिन्तया सततम् ॥५॥ दान-वाणिज्योपभोगादीनि । विधिवशात् भाग्यस्य विपर्ययात् । 'देवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधि' इत्यमर । धनक्षय =धनविनाश , दारिद्यम् । अपमानपरम्परया बन्धुबान्धवज्ञातिलोककृतया नानाविधतिरस्कारसन्तत्या । परम् अत्यन्तं । विपादम्=दु खम् । गत -प्राप्त । अथ-शनैर्गच्छति काले। अन्यदा-कस्मिश्चित्काले । घिगिति । यत इयम्-ईदृशी दरिद्रता मग प्राप्ता, अतो मा धिक्-इत्यध्याहारेण योजनीयम् । उक्तम् कथितञ्च । 'प्रामाणिकैरिति शेष । उक्तमेवाह-शीलमित्यादि ।शील-शुभाचारः। शौच-पवित्रता । क्षान्ति क्षमा । दाक्षिण्यम् उदारता। मधुरता-मधुरभाषित्वं । कुले सत्कुले । वित्तविहीन- स्य-धनरहितस्य दरिद्रस्य ॥२॥ मानो वेति । मान =चित्तसमुन्नति. । दर्प.= अभिमान । विज्ञानं शिल्पकलाकौशल, प्रौढं पाण्डित्यञ्च । विभ्रम =निर्धान्तत्वं, विलासो वा । समं युगपदेव । वित्तविहीन.=निर्धन ॥२॥ प्रतीति । वसन्तवातेन वसन्तर्तुभवेन मरुता । आहता-ताडिता, शिशिर- श्रीरिव शिशिरर्तुशोभेव । ('जाडा')। बुद्धिमतामपि-बुद्धिः-कुटुम्वभर- चिन्तया-कुटुम्बपालनायासखेदेन । प्रतिदिवसं प्रत्यहं, शनै शनैः। लयं विनाशं-याति-गच्छति ॥ ४ ॥ विपुलमते विशालवुद्धे पण्डितस्यापि पुरुषस्य। मन्दविभवस्य=निर्धनस्य। प्रकृते घृतादिक-कुटुम्बोपकरणमात्रोपलक्षणम् ॥ ५॥ १ 'प्रतिदिनमुपैति विलय'-पाठान्तरम् ।