पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

कथञ्च बुभुक्षित इव लक्ष्यते । तदतिथिरसि मे । उक्तञ्च- 'समयाभ्यागतोऽतिथिः। तदेष गजः सिंहेन हतस्तिष्ठति-अह- ञ्चास्य तदादियो रक्षपालः। परं तथापि यावत्सिहोन समा- याति, तावदस्य गजस्य मांसंभक्षयित्वा तृप्तिं कृत्वा द्रुततरंब्रज । स आह-माम ! यद्येवं तन्न कार्य मे मांसाशनेन । यतः- 'जीवन्नरो भद्रशतानि पश्यति ।' उक्तञ्च- यच्छक्यं ग्रसितुं शस्तं, अस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ ७५ ।। सर्वथा तदेव भुज्यते यदेव परिणमति, तदहमितोऽपया- स्यामि ।' शृगाल आह-'भो अधोर ! विश्रब्धो भूत्वा भक्षय .. त्व, तस्याऽऽगमनं दूरतोऽपि तवाऽहं निवेदयिष्यामि ।' तथाऽनुष्ठिते द्वोपिना भिन्नां त्वचं विज्ञाय जम्बूकेनाऽभिहि- तम्-'भो भगिनीसुत ! गम्यताम् , एप सिंहः समायाति ।' तच्छ्रुत्वा चित्रको दूरं प्रनष्टः । अथ यावदसौ तद्भेदकृतद्वारेण किञ्चिन्मांस भक्षयति ताव तिसङ्घद्धोऽपरः शृगालः समाययौ। अथ तमात्मतुल्यपराक्रार इष्दैनं श्लोकमपठत्- 'उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ॥७६ ।। ततश्च तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस्तं विदार्य दिगन्त- पार्थात्-सनिधानात् ('इसके पास से' )। रक्षपाल =रक्षक । ('रखवाला' )। 'रक्षापाल' इति केचित्पठन्ति । भद्रशतानि पश्यति आनन्दशतान्यनुभवति । विश्रब्ध =विश्वस्त । तस्य=सिंहस्य । तथानुष्ठिते-चित्रकेण त्वचं संख- ण्ड्य गजमासभक्षणे प्रारब्धे। प्रनष्ट:-पलायित । प्रकृते-उत्तमः सिंह, व्याघ्रः-शूर नीच -चित्रक, शृगाल. सम इति ध्येयम् ॥ ७६ ॥ १. 'दिशां भागं कृत्वे ति कचित्पाठ. । तत्र-दिशां भागं वलिं,कृत्वा-तं हत्वेत्यर्थः।