पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३४३ 'अथ नन्दस्य भार्यापितथैव रुटा प्रसाद्यमानाऽपिन तुष्यति। तेनोक्तम्-'भद्रे! त्वया विना मुहूर्तमपि न जीवामि, पादयोः पतित्वा त्वां प्रसादयामि ।' साऽब्रवीत्-'यदि खलीनं मुखे प्रक्षि- प्याऽहं तव पृष्ठ समारुह्य त्वां धावयामि, धावितस्तु यद्यश्ववद् हेषसे, तदा प्रसन्ना भवामि ।' राज्ञाऽपि तथैवानुष्ठितम् । अथ प्रभातसमये सभायामुपविष्टस्य राज्ञः समीपे वररुचि- रायातः । तं च दृष्ट्वा राजा पप्रच्छ-'भो वररुचे ! कस्मिन् पर्वणि मुण्डितं शिरस्त्वया ?।' सोऽब्रवीत्- 'न कि दद्यान्न कि कुर्यास्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र द्वेषन्ते तत्र पर्वणि मुण्डितम्' ।। ४७ ।। तद्धो दुष्टमकर ! त्वमपि नन्दवररुचिवत्स्त्रीवश्यः। ततैस्तद्ध- णितेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः। परं स्ववाग्दो- षेणैव प्रकटीकृतः । अथवा साध्विदमुच्यते- आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः। बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनॅम ॥४८॥ तथा च- सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः । पादोपग्रहणे कृते सति । नन्दस्य तन्नाम्नो महाराजस्य । तेन-नन्देन । पादयोः पतित्वा-प्रणम्य। खलीनं कविकाम् । ['लगाम' व 'लगाम का कडा' ] ! धावयामि-प्रेरयामि । ('चलाना' 'हाकना')। हेषसे अश्वशब्दं करोषि । ('हिन- हिनाना)। पर्वणि पुण्यकाले । विना पर्व शिरोवपनस्य निषेधात् । अभ्यर्थित = प्रार्थित । अनश्वा अवभिन्ना भवद्विधा राजानोपि, यत्र-प्रियाप्रसादने सुरतम. हापर्वणि हेषन्ते अश्ववच्छब्दं कुर्वन्ति, तत्र पर्वणि-तस्मिन् सुरतमहायज्ञे, मयापि शिरो मुण्डितमिति रात्रिवृत्तान्तस्मारणेन सर्वज्ञेन वररुचिना राजा कटाक्षितः ॥४७॥ मुखदोषेण वहुभाषणदोषेण, मुखचाञ्चल्येन च ॥४८॥ सुगुप्त=नितरां १. "किमपर्वणि-मुण्डित शिरस्त्वया' इति पाठा० । २ 'ततो भद्र । तद्भणितेन' । ण०१३ 'प्रकटित'। ४ 'साधकम्' । पा० । 3