पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२

  • पञ्चतन्त्रम् *

[४ लब्ध- ततः सविस्मयं राजाऽब्रवीत्-'किमेतत्' ? इति । ब्राह्मणे- नापि पूर्ववृत्तान्तः सकलोऽपि तस्मै निवेदितः । अतोऽहं ब्रवीमि-'यदर्थे स्वकुलं त्यक्तम्-'इति । वानरः पुनराह-'साधु चेदमुपाख्यानकं श्रूयते- न कि दद्यान्न कि कुर्यात्स्त्रीभिरभ्यर्थितो नरः। अनश्वा यत्र द्वेपन्ते तत्र पर्वणि मुण्डितम् ॥ ४६॥ मकर आह-'कथमेतत् ?' | वानरः कथयति- ६. नन्दवररुचिकथा अस्ति प्रख्यातवलपौरुषोऽनेकनरेन्द्रमुकुटमरीचिजालजटि- लीकृतपादपीठः शरच्छशाङ्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा। तरय सर्वशास्त्राधिगतसम- स्ततत्त्वः सचिवो वररुचिर्नाम । तस्य च प्रणयकलहेन जाया कुपिता । सा चाऽतीव वल्लभाऽनेकप्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यसि तं वद, निश्चितं करोमि।' ततः कथञ्चित्तयोक्तम्-'यदि शिरो मुण्डयित्वा मम पादयोः निपतसि तदा प्रसादाभिमुखी भवामि ।' तथानुष्ठिते च सा प्रसन्नाऽऽसीत् । त्रिरुक्त्वा । मया ब्राह्मण्या । दत्तं परावर्त्य दीयते । प्राणैर्वियुक्ता-मृता । प्रख्यातं बलं पौरुषञ्च यस्यासौ तथा-प्रसिद्धवलपराक्रम । अनेके ये नरेन्द्रा -राजानः, तेषां यानि मुकुटानि, तेषां या मरीचय.-प्रभास्तासा जालेन= . पुजेन, जटिलीकृतं व्याप्तं पादपोठं यस्यासौ तथा। अनेकराजवन्दित इत्यर्थ । शरदि यः शशाङ्कस्तस्य ये किरणास्तद्वत् निर्मलं स्वच्छं यशो यस्यासौ तथा । कीर्तिशालीत्यर्थः । सर्वैः शास्त्रैः समधिगतं समस्तं तत्त्वं-रहस्य-भूतं भविष्यच्च येनासौ तथा । त्रिकालवेत्तेत्यर्थः। प्रणयकलहेन कृत्रिमकलहेन । जाया पन्नी। वल्लभा प्रिया। अनेकप्रकारं नानोपायैः। परितोप्यमाणा प्रसाद्यमाना । प्रसी- दति प्रसन्ना भवति । प्रसादाभिमुखी प्रसन्ना। तथाऽनुष्टिते-शिरो मुण्डयित्वा