पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्ध- गतः। व्याघ्रचर्मप्रतिच्छन्नो वाकृते रासभो हतः ॥ ४९ ॥ मकर आह-कथमेतत् ?' । वानरः कथयति- ७. वाचालरासभकथा कस्मिश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाऽभावादतिदुर्बलतां अथ तेन रजकेनाऽटव्यां परिभ्रमता मृतव्याघ्रो दृष्टः । चिन्तितञ्च-'अहो ! शोभनमापतितम् , अनेन व्याघ्रचर्मणा प्रति- च्छाद्य रासभं रात्रौ यवक्षेत्रेषूत्स्रक्ष्यामि,-येन व्याघ्र मत्वा समीपवर्तिनः क्षेत्रपाला एनं न निष्कासयिष्यन्ति । तथाऽनुष्ठिते रासभो यथेच्छया यवभक्षणं करोति, प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवरतनुर्जातः । कृच्छ्राद्वन्धनस्थानमपि नीयते । अथाऽन्यस्मिन्नहनि स मदोद्धतो दूराद्रासभीशब्दमशृणोत् । तच्छ्रवणमात्रेणैव स्वयं शब्दायितुमारब्धः। अथ तैः क्षेत्रपालैः 'रासभोऽयं व्याघ्रचर्मप्रतिच्छन्नः' इति ज्ञात्वा लगुडशरपाषाण- प्रहारैः स व्यापादितः। अतोऽहं ब्रवीमि-'सुगुप्तं रक्ष्यमाणोऽपि-'इति।* अथैवं तेन सह वदतो मकरस्य -जलचरेणैकेनागत्याऽभि- गूढं यथा स्यात्तथा। दारुणं-विकृतं । व्याघ्रचर्मप्रतिच्छन्न =व्याघ्रचर्माच्छादित- तनुः । वाकृते वाक्चापलात् ॥ ४९ ॥ घासाभावात्-वासादिभोजनव्यवस्थाऽभावात् । गोभनमापतित्तं युक्तं जातम् । ('ठीक हो गया')। प्रतिच्छाद्य-पिधाय । उत्स्रक्ष्यामि त्यक्षामि । 'उत्सृ- जामीति पाठान्तरम्। प्रत्यूषे अहर्मुखे। ('तडकाऊ' 'पौ फटने पर)। पीवरतनु = पुष्टदेहः । कृच्छ्रादिति । बन्धनस्थानमपि कृच्छ्रान्नीयतेऽतिबलशालित्वादित्यर्थ । मदोद्धत =मदोन्मत्त.। शब्दायितुं शब्दं कर्तुम् । लगुडशरपाषाणप्रहारै. दण्ड- बाणप्रस्तरप्रहारैः । ते क्षेत्रपालाः-लगुडशरपाषाणप्रहारैस्तं व्यापादितवन्त' इति पाठान्तरम् ।