पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्ध अत्राऽन्तरे सिंहो यावत्स्नात्वा कृतदेवार्चनः प्रतर्पितपितृ. गणः समायाति तावत्कर्णहृदयरहितो रासभस्तिष्ठति । तं कोपपरीतात्मा सिंहः शृगालमाह-'पाप ! किमिदमनुचितं कर्म समाचरितं,-यत्कर्णहृदयभक्षणेनाऽयमुच्छिष्टतां नीतः ?' । शृगालः सविनयमाह-'स्वामिन् ! मा मैवं वद, कर्णहृदय- रहित एवायं रासभ आसीत्, येनेहागत्य त्वामवलोक्य भूयो. ऽप्यागतः।' अथ तद्वचन श्रद्धेयं मत्वा सिंहस्तेनैव सह संविभज्य निःशङ्कितमनास्तं भक्षितवान्। अतोऽहं ब्रवीमि-'आगतश्च गतश्चैव-'इति 19 तन्मूर्ख ! कपर्ट कृतं त्वया,-परं युधिष्ठिरेणेव सत्यवचनेन -विनाशितम् । अथवा साध्विमुच्यते- स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः । स स्वार्थाद्भश्यते नूनं युधिष्ठिर इवाऽपरः ।। ३८ ।। मकर आह-'कथमेतत् ?' । स आह- ३. युधिष्ठिरकुम्भकारकथा कस्मिश्चिदधिष्ठाने कोऽपि कुम्भकारःप्रतिवसति स्म। स कदाचित्प्रमादार्धभन्नघटकर्परतीक्ष्णाग्रस्योपरि महता वेगेन धान्वन्पतितः। ततः कपरकोट्या पाटितललाटो रुधिरप्लावित- सिहः । लौल्यौत्सुक्यात् चाचल्येन । उत्कण्ठितया। तस्य = रासभस्य। कर्ण- हृदयंकणे हृदयञ्च । प्राण्यत्वादेकवद्भावः। प्रतर्पितपितृगणः दत्तसतिल. जलाञ्जलिः । कोपपरीतात्मा = क्रोधाविष्टहृदयः। श्रद्धयं विश्वासयोग्यम् । संवि भज्य=विभागढत्वा ( 'वॉट कर')। मूर्ख-मूढ मकर ! परंपरन्तु युधि- ष्ठिरः-तन्नामा कुम्भकार । स्वार्थ = स्वप्रयोजनम् । दम्भी-सत्यवादिनमात्मानं चिख्यापयिषुः ॥ ३८॥ प्रमादात् अनवधानात् । भग्नघटस्यार्धम्-अर्धभन्नघट, तस्य य. कर्परः कपालम्-तस्य यत्तीक्ष्णमग्रं-प्रान्तभागस्तस्योपरि-पतित इत्यन्वयः। कर्पर-