पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

भवति, तदहमग्नौ जले वा प्रविशामि,-न पुनस्तस्य वियोगं सोढुं शक्नोमि'। इति। तत्प्रसादं कृत्वा तत्राऽऽगम्यतां, नो चेत्तव स्त्रीहत्या भविष्यति । अपरं भगवान्कामः कोपं तवोपरि करिष्यति । उक्तञ्च- स्त्रीमुद्रा मकरध्वजस्य जयिनी सर्वार्थसम्पत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिोफलान्वेपिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिला कापालिकाश्चापरे ॥३६॥ अथाऽसौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । साध्विमुच्यते- जानन्नपि नरो दैवात्प्रकरोति विगहितम् । कर्म, किं कस्यचिल्लोके गर्हितं रोचते कृतम् ।। ३७ ।। अत्रान्तरे सजितक्रमेण सिंहेन स लम्बकों व्यापादितः। ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्यौत्सुक्यात्तस्य कर्णहृदयं भक्षितम् । प्रायोपवेशनम् अनशनम् । वदति । अस्य ‘रासभीति शेष । प्रसादम् अनु- ग्रहम् । मकरध्वज = काम। जयिनी = जगत्रयविजयशीलाम् । सर्वार्थाना- धर्मार्थकामादीना सम्पदं करोति तच्छीलाम् , तद्धेतुभूता वा । मुद्रा-चिहम् । स्त्रीमुद्रां स्त्रीरूपं शासनम् । प्रविहाय-परित्यज्य, उल्लङ्घ्य वा। मिथ्याफलानि- स्वर्गापवर्गादीनि,-अन्वेषयन्ति तच्छीला । तेनैव-कामेनैव राज्ञा। रक्तपटीकृता = रुधिरावसनाः, काषायाम्बरधारिणश्च कृता । जटिला. जटाभारधारिणः । कापालिका = पाखण्डभेदा. ( 'जोगी' 'स्मशान सेवी' ) अन्योऽपि राजा स्वशा- सनोल्लङ्घनपरान्,-तथैव मुण्डनादिना दण्डयति ॥ ३६॥ असौ गर्दभः । तद्वचनं शृगालवाक्यम् । दैवात् = अदृष्टवशीभूत एव । निन्दितं कर्म-किं कस्यापि प्रियं भवति ? । न भवतीत्यर्थः । अतो दैवायत्त एव गर्हितं कुरुत इति भावः ॥ ३७ ॥ तगर्दभम् , निरूप्य निर्दिश्य, स्वय= १. 'स्वर्गापवर्गेच्छये ति लिखितपुस्तकपाठः। २ 'कथ' मिति प्रचलित पाठ आसीत् ।