पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२

  • पञ्चतन्त्रम् *

[४ लब्ध- स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्राऽन्तरे शृगालः कोपाविष्टस्तमुवाच-भोः किमेवंविधः प्रहारस्ते,-यगर्दभोऽपि तव पुरतो बलाद्गच्छति !। तत्कथं गजेन सह युद्ध करिष्यसि ? । तद् दृष्टं ते बलम् ।' अथ विलक्षस्मितं सिंह आह-'भोः! किमहं करोमि ? मया न क्रमः सज्जीकृत आसीत्, अन्यथा गजोऽपि मरक्रमाकान्तो न गच्छति।' शृगाल आह-'अद्याऽप्येकवारं तवान्तिके तमानेष्यामि, परं -स्वया सज्जोकृतक्रमेण स्थातव्यम् ।' सिंह आह-'भद्र ! यो मां प्रत्यक्ष दृष्टा गतः स पुन. कथमत्रागमिष्यति ? । तदन्यत्किमपि सत्त्वमन्विष्यताम् । शृगाल आह-'किं तवानेन व्यापारेण ?, त्वं केवलं सजितक्रमस्तिष्ठ।' तथानुष्ठिते शृगालोऽपि यावद्रा- सभमार्गेण गच्छति, तावत्तत्रैव स्थाने चरन्दृष्टः । अथ शृगालं दृष्टा रासभः प्राह-'भो भगिनीसुत ! शोभन- स्थाने त्वयाहं नीतः, द्रोङ् मृत्युवशं गतः । तत्कथय किं तत्स- चम् ? यस्यातिरौद्रवज्रसशकरप्रहारादहं मुक्तः । तच्छुत्वा महसञ्छृगाल आह-'भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता, त्वं च कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुं, तया तु नश्यतस्तेऽवलम्बनार्थ हस्तः क्षिप्तः, नान्यकारणेन । तदागच्छ, सा त्वत्कृते प्रायोपवे- शनोपविष्टा तिष्ठति । एतद्वदति-'यल्लम्बकरें यदि मे भर्ता न व्यवसाय इव = उद्योग इव । एवंविधः ईदृशः। विलक्षस्मितं - चकितस्मितं । लजितस्मितं यथा स्यात्तथेति यावत् । 'विलक्षो विस्मयान्विते' इत्यमरः। क्रमः- आक्रमणोचितः सन्नाहः। व्यापारेण = चिन्तादिना। भगिनीसुत - हे भागि- -नेय ! (भानजा )। द्राक् झटिति । गत. = गत इवाभूवम् । अतिरौद्रेण क्रूरतरेण । वज्रसदृशात्-करप्रहारात्=चपेटाघातात् । रासभी = गर्दभी । सानु- रागं = सस्नेहम् । कातरत्वात् भीरुत्वात्। नष्ट' पलायितः। नश्यतः पलाय. मानस्य । अवलम्बनार्थ निषेधार्थम् ('पकड़ने के लिए | क्षिप्तः = उत्थापितः। १. यद् दैवान्मृत्युवशं न गतः' इति लिखितपुस्तकपाठ ममुचितः ।