पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

तनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चाऽपथ्यसेवनात्स प्रहा. रस्तस्य करालतां गतः, कृच्छ्रेण च नीरोगतां नीतः । अथ कदाचिद्दर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । स च राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास यत् - 'वीरः पुरुषः कश्चिदयं, नूनं तेन ललाटपट्टे संमुखप्रहार.' अतस्तं संमानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति स्म । तेऽपि राजपुत्रास्तस्य त प्रसादा- तिरेकं पश्यन्तः परमीधिर्म वहन्तो राजभयान्न किञ्चिदूचुः । अथाऽन्यस्मिन्नहनि तस्य भूपते विग्रहे समुपस्थिते, वीर- सम्भावनायां क्रियमाणायां, प्रकल्प्यमानेषु गजेपु, सन्नह्यमानेषु वाजिपु, योधेपु प्रगुणीक्रियमाणेपु, तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-'भो राजपुत्र ! किं ते नाम ? का च जातिः? कस्मिन्सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ? । स आह-'देव ! नायं शस्त्रप्रहारः, युधिष्ठिराभिधः कुलालो- ऽहं जात्यो । भद्गहेऽनेककर्पराण्यासन् । अथ कदाचिन्मधपानं कृत्वा निर्गतःप्रधावन्कर्परोपरि पतितः। ततश्च प्रहारविकारोऽयं कोट्या -- कर्पराग्रकोणेन । पाटितललाट =भिन्नललाटपट्टः । युधिरप्लाविततनुः= रुधिरपरीतगात्र । ('लोहूलुहान')। कृच्छ्रात् महता कष्टेन । (किसी तरह)। अपथ्यसेवनात् = अनुचिताचरणभक्षणादिना। प्रहार व्रण.। करालता गम्भी. रताम् । ('गहरा घाव' ) । नोरोगता स्वास्थ्यम् । दुर्भिक्षम्-अकाल । विक- राल दीर्घमायतं गभीरञ्च । प्रहारक्षत-प्रहारव्रणम् । तेन अत एव । विशेष- प्रसादेन विशेषेणानुग्रहेण । ईर्ष्याधर्मम् ईर्ष्यान्वितं भावम्। वीरसम्भावनायां= चीरपूजायाम्, तत्परीक्षायाश्च । विग्रहे युद्धे । प्रकल्प्यमानेषु-सज्जीक्रियमाणेषु । (हाथी तैयार किए जा रहे थे)। सन्नह्यमानेषु-पर्याणवन्धादिना सज्जीक्रिय- माणेषु वाजिपु-अश्वेषु । प्रगुणीक्रियमाणेषु सन्नह्यमानेषु । प्रस्तावानुगतं प्रस- जात्। निर्जनेरहसि। अत्र 'कुलालोऽहं प्रकृत्येति पाठान्तरे प्रकृत्या स्वभावेनैवा- 1. 'विलोक्यमानेषु' इति पाठा०।२ 'कुलालोऽहं । प्रकृत्ये ति पाठा०।