सामग्री पर जाएँ

पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

करटक आह-'अथ भवान् किं कर्तुमनाः ? ।' सोऽब्रवीत्-'अद्याऽस्मत्स्वामी पिङ्गलको भीतो, भीतपरि वारश्च वर्तते । तदेनं गत्वा भय कारणं विज्ञाय सन्धि-विग्रह- याना-ऽऽसन-संश्रयद्वैधीभावानामेकतमेन-संविधास्ये।' करटक आह-'अथ कथं वेत्ति भवान्-यद्भयाविष्टोऽयं स्वामी ?' । सोऽब्रवीत्-ज्ञेयं किमत्र ? । यत उक्तञ्च- उदीरितोऽर्थः पशुनापि गृह्यते याश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः ॥ ४४ ॥ तथाच- आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवऋविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ।। ४५ ।। तदीनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेण निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि । करटक आह-'अनभिज्ञो भवान्सेवाधर्मस्य, तत्कथमेनं वशीकरिप्यसि ? ।' सोऽब्रवीत्-'कथमहं सेवानभिज्ञः १ । मया शेष ॥ ४३ ॥ अथेति प्रश्ने । (अच्छा तो)। किङ्कर्तुमना ?=किङ्कर्तुमिच्छति ? सन्धि =मित्रता, विग्रह -युद्धं, यानम् आक्रमणं, ('चढाई')। आसनं दुर्गाद्या- श्रयण, ('किले बन्दी')। सश्रय =बलवत्स्वमित्राश्रयणं, द्वैधीभाव =शत्रुसेनादि- पूपजापो, विरोधोत्पादनञ्च । संविधास्ये कार्य करिष्ये । उदीरित =कथित ,अर्थ-विषय ,गृह्यते ज्ञायते,हयाश्च-अश्वा अपि,नागाश्च हस्तिनोऽपि, नोदिता प्रेरिता -सन्त । चोदिता इति पाठेऽपि स एवार्थ । नुद प्रेरणे । वहन्ति नयन्ति। पण्डित -अनुक्तमपि वस्तु-अहति-विजानाति, तर्क- यति । परस्य यदिगित-भाव , तस्य ज्ञानमेव फलं यासान्ता बुद्धय इत्यर्थ ॥४४॥ आकारै मुखादिसंस्थानविशेपै , इशितै =भावविकार , चेष्टया हस्तपादादि- चालन , नेत्रवक्त्रविकारै -मुखभङ्गी-नेत्रारुण्यप्रसादादिभिश्च । मन-मनोगत भयादिकं । लक्ष्यते-जायते ॥ ४५ ॥