सामग्री पर जाएँ

पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०

  • पञ्चतन्त्रम् *

[१ मित्र- हि तातोत्सङ्ग क्रीडताऽभ्यागतसाधूनां नीतिशास्त्रं पठतां यच्छ्रुतं सेवा-धर्मस्य सारभूतं-हृदि स्थापितम् । श्रूयताम् । तच्चेदम्- सुवर्णपुष्पिता पृथ्वी विचिन्वति नरास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥४६॥ ये सेवकाः प्रभुहिता ग्राह्यवाक्या विशेपतः । आश्रयेत्पार्थिवं विद्वांस्तवारेणैव नाऽन्यथा ॥४७॥ यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूपरादिव ॥४८॥ द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणाऽन्वितः । भवत्याजीवनं तस्मात्फलं कालान्तरादपि ।। ४९ ॥ अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा। न त्वेवाऽनात्मसंपन्नादृत्तिमीहेत पण्डितः ॥ ५० ॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुपाक्षरम् । तातस्य-पितु.-उत्सङ्गे-कोडे ('गोद मे' ) । 'तद्धृदि स्थापित मिति- सम्बन्ध । तच्च-सेवाधर्मतत्त्वञ्च । राजसभासु सदाऽनुसन्धेयं रहस्यभूतमुप. देशमाह-सुवर्णेति । सुवर्णमेव पुष्पाणि-सुवर्णपुप्पाणि, तानि सजातानि यस्या सा ता-सुवर्णपुष्पिताम्-सुवर्णपूर्णाम् , विचिन्वन्ति स्वायत्तीकुर्वन्ति ॥४६॥ ग्राह्यवाक्या. आप्ततमा । पार्थिवं-राजानम् । तद्वारेणैव-राजप्रियजनद्वारैव । अन्यथा-स्वयमेव ।। ४७ ॥ सुकृष्टात्-समुचितेन कर्षणादिना संस्कृतात् । ऊप- रात्-सस्योत्पत्ययोग्यक्षारवहुलभूमेरिव । (ऊखर भूमि की तरह')। फलं-सस्या- दिकं धनं च। न नैव भवति ॥४८॥दव्यस्य प्रकृति =प्रवृद्धि । तया हीनोऽपि अल्पधनोऽपि । सेव्यगुणै =औदार्यादिभिः । अन्वित =युक्त । आजीवनं जीविका- त्मकं फलं । कालान्तरादपि कालान्तरेऽपि । तस्मात् राजादेर्भवति ॥ ४९ ॥ क्षुधा-अन्नजलबुभुक्षादिना । परिगत =व्याप्तः । स्थाणुवत्-निप्पत्रवृक्षवतं । शुष्येत् दु.खमनुभवेत् । अनात्मसम्पन्नात्-युक्तायुक्तविवेकरहितात्-राज । वृत्तिजीविकाम् । न ईहेत-न वाञ्छेत् ॥५०॥ यः सेवको दुष्टं स्वामिनं निन्दति १. 'प्रिया हिताश्च ये राज्ञाम्' इति पाठान्तरम् । २. स्वामिन देष्टि सेवकाधम इत्यसौ'-इति पाठान्तरम् ।