पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

तत्कि तेन भव्यप्रदेशेन' ?। शृगाल आह-माम ! मैवं वद, मद्भुजपञ्जरपरिरक्षितः स देशः, तन्नास्ति कस्यचिदपरस्य तत्र प्रवेशः। परमनेनैव विधिना रजककदर्थितास्तत्र तिस्रो रासभ्यो- ऽनाथाः सन्ति, ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः- 'यदि त्वमस्माकं सत्यो मातुलस्तदा किञ्चिद्रामान्तरं गत्वाऽस्म- द्योग्यं कश्चित्पतिमानय'। तदर्थे त्वामहं तत्र नयामि ।' अथ शृगालवचनानि श्रुत्वा कामपीडिताङ्गो लम्वकर्णस्तम- वोचत्-'भद्र ! यद्येव तदने भव, येनागच्छामि।' अथवा साध्विद-मुच्यते'. नाऽमृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गन जीव्येत म्रियते च वियोगतः ॥ ३४॥ यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना। तासां हक्सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ! ॥३५ ।। तथानुष्ठिते शृगालेन सह सिंहान्तिकमागतः। सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति, तावदासभः पलायितु. मारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तलप्रहारो दत्तः । माम मातुल ! । म जपञ्जरपरिरक्षित =मत्पालितः । अनेनैव-त्वत्तुल्येन भक्ष्याऽलाभादिना। रजककदर्थिता. वनधावकपीडिताः। अनाथा: स्वामिशन्या । यौवनोत्कटा यौवनमदोन्मत्ता । सत्य. यथार्थ । तदर्थे रासभीपरिभोगार्थम । निनम्बिनीं मुक्त्वा कामिनी विना। अमृतविषोभयघटितं वस्त्वन्तरं नास्ति, यतोऽस्या सङ्गेन जीवनलाभो वियोगे च मरणमित्यर्थ.॥ ३४ ॥ सङ्गमदर्शना- ऽभावेपि यासा नामश्रवणमात्रेण कामव्यथा, तासां-कामिनीना दृक्सङ्गम कटाक्षगोचरतां, प्राप्य, यन्नरो न द्रवति कामोन्मत्तो न भवति, सुखसागरनिमग्नो न भवतिवा। कौतुकम् =आश्चर्यम् ॥ ३५॥ तथानुष्ठिते अग्रतश्चलिते शृगाले । तलप्रहारः = चपेटाघात:, ('थप्पड')। १. अत्र-येन त्वरितं तत्र गच्छावः। युक्तञ्चैतत् ।' इति लिखितपुस्तकपाठ एव युक्ततर..