पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३०

  • पञ्चतन्त्रम् *

[ ४ लब्ध- २. सिंहलम्बकर्णकथा कस्मिश्चिद्वनोद्देशे करालकेसरो नाम सिहः प्रतिवसति स्म । तस्य च धूसरको नामशृगालः सदैवानुयायी परिचारकोऽस्ति। अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे गुरु- तराः प्रहाराः साताः, यैः पदमेकमपि चलितुं न शक्नोति । तस्याऽचलनाच्च धूसरकःक्षुत्क्षामकण्ठो दौर्बल्यङ्गतोऽन्यस्मिन्नहनि तमवोचत्-'स्वामिन् ! बुभुक्षया पीडितोऽहं, पदात्पदमपि चलितुं न शक्नोमि, तत्कथं ते शुश्रषां करोमि !।' सिंह आह-भोः !, गच्छ अन्वेषय किंचित्सत्वम्, येने- मामवस्थाङ्गतोऽपि व्यापादयामि ।' तदाकये गालोऽन्वेपयन्कञ्चित्समीपवर्तिन ग्राममासादि- तवान् । तत्र लम्बकर्णों नाम गर्दभस्तडागोपान्ते प्रविरलदूर्वा- कुरान्कृच्छ्रादास्वादयन्दृष्टः। ततश्च समीपवर्तिना भूत्वा तेनाभि- हितः-'माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिरादृष्टो. ऽसि ? । तत्कथय किमेवं दुर्वलतां गतः । स आह-'भो भगिनीपुत्र ! किं कथयामि, रजकोऽतिनिर्द- योऽतिभारेण मां पीडयति । घासमुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान्धूलिमिश्रितान्भक्षयामि । तत्कुतो मेशरीरे पुष्टिः ?' । शृगाल आह-'माम ! यद्येवं तदस्ति मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयतरः प्रदेशः, तत्रागत्य मया सह सुभाषित- गोष्ठीसुखमनुभवंस्तिष्ठ !' । लम्बकर्ण आह-'भो भगिनीसुत ! युक्तमुक्तं भवता, परं वयं ग्राम्या पशवोऽरण्यचारिणां वध्या' प्रहारा =आघाताः ('चोट') । शुश्रूषां=परिचर्याम् । तडागोपान्ते तडाग- समीपे । प्रविरलदूर्वाङ्कुरान् अगाढोत्पन्नदुर्वाङ्कुरान् । कृच्छ्रात् कष्टात्। सम्भा- व्यताम् स्वीक्रियताम् । मरकतसदृशशप्पप्रायः गारुत्मतमणितुल्यघासप्रचुरः । ( मरकत= पन्ना' )। नदीसनाथ नदीसहितः । रमणीयतरः सुन्दरतर ।' सुभाषितगोष्ठीसुखं- प्रेमालापगोष्ठीवन्धसुखम् । ग्राम्याः ग्रामवासिनः। भव्यप्रदेशेन मनोहरप्रदेशेन।