पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्ध- . यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण 'धिन्धिम् इति प्रलापपरः कथञ्चिदपि न विरराम । ततः स्वपल्याऽभिहितः- 'किं क्रन्दसि दुराक्रन्द ! स्वपक्षक्षयकारक !। स्वपक्षस्य क्षये जाते को नखाता भविष्यति' ॥३१॥ यदद्यापि विचिन्त्यतामात्मनो निष्क्रमणम्, अस्य वधोपायं च। अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गगदत्तस्तिष्ठति। ततः प्रियदर्शनेन भणितम्-'भो गङ्गदत्त ! बुभुक्षितोऽहं, निःशेषिताः सर्वे मण्डूकाः, तद्दोयतां मे किञ्चिद्भोजनं, यतोऽहं त्वयाऽत्राऽऽनीतः। स आह-'भो मित्र ! न त्वयाऽत्र विषये मय्यवस्थिते कापि चिन्ता कार्या, तद्यदि मां प्रेपयसि, ततोऽन्यकूपस्थानपि मण्डूकान्विश्वास्याऽत्रानयामि ।' स आह-'मम तावत्त्वमभक्ष्योभ्रातृस्थाने, तद्यद्येवं करोषि तत्सा. स्प्रतं-पितृस्थाने भवसि । तदेवं क्रियताम्' इति । सोऽपि तदाकाऽरघट्टघटिकामाश्रित्य विविधदेवतोपक- ल्पितपूजोपयाचितस्तस्मात्कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तदागमनकाझ्या तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनी गोधामुवाच-'भद्रे ! क्रियतां स्तोकं साहाय्यम्, यतश्चिरपरि. चितस्ते गङ्गदत्तः। तद्गत्वा तत्सकाशं कुत्रचिजलाशयेऽन्विष्य मम सन्देशं कथय येनागम्यतामेकाकिनापि भवता द्रुततरं, यद्यन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं न्याचरति ॥ ३० ॥ 'सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे' इति मेदिनी। दुराक्रन्द-दुष्टध्वने ! । दुराकान्तेति युक्तः पाठः । दुर्नीतिपरायणेत्यर्थः। परि- त्राण-रक्षणम् । परित्रा'मिति पाठे-क्विबन्तमेतत् । परित्रा-रक्षामिति चार्थ.॥३१॥ कवलित-भक्षितम् । पितृस्थान=पितृतुल्य । विविधाभ्यो देवताभ्य उपकल्पितं पूजैव-उपयाचितम् उपहारो येनासौ तथा । उपरचितं आथितमिति-व्याख्या- , 'परित्रां कः करिष्यति' । 'परित्राणं क्व लप्स्यसे' इति च पाठा० ।