पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३२७ उक्तञ्च- सर्वस्वहरणे शक्तं शत्रु बुद्धियुता नराः । तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २६ ॥ तथा च- यो दुर्वलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च कर्षमात्र खारी स चूणस्य पुनर्ददाति ।। २७ ।। तथा च- 'सर्वनाशे समुत्पन्ने अर्द्ध त्यजति पण्डितः । अर्द्धन कुरुते कार्य, सर्वनाशो हि दुस्सहः ॥ २८॥ न म्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद्भरिरक्षणम्' ॥२९॥ एवं निश्चित्य नित्यमेकैकं तमादिशैति । सोऽपितं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते- यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवित्तस्तु वित्तशेषं न रक्षति' ॥ ३० ।। अथाऽन्यदिने तेनाऽपरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतो कुरुते स विषभक्षणमिवात्मनाशाय कुरुते इत्यर्थ. ॥२५॥ बुद्धियुताः पण्डिता. । वाडवं-वडवानलम् ॥ २६ ॥ बलीयसा=बलिष्ठेन । शत्रुणा-साम्ना-सान्त्वनपूर्व- कम्-याच्यमान =प्रार्थ्यमानः । अणूनपि-स्तोकमपि-नैव यच्छति ददाति । किञ्च कर्षमात्रम् अक्षमात्रम् । 'चूर्ण'मिति शेष । ('तोले भर' 'चुटकीभर')। यो न प्रयच्छति ददाति । स पुन.-चूर्णस्य खारी-द्रोणचतुष्टयं(मणभर)।ददाति दास्यति॥ स्वल्पात् स्वल्पमुत्सृज्य दत्त्वा । भूरिरक्षणम् विपुलस्य रक्षणम् ॥ २९ ॥ यथेति । मलिनवस्त्रो यथा यत्र तत्र-स्थाने उपविशति, नस्वच्छता प्रतीक्षते, एवं चलितवित्तः क्षीणधन , अवशिष्टमपि द्रव्यं न रक्षति। वस्तुतस्तु-वलितवृत्त इति पाठ । चलितवृत्त =किञ्चिद्रष्टाचारः । वृत्तशेषम् आचारशेषमपि न रक्षति । गणिकासक्तो मद्यं, मद्यासक्तो मांसं, तदासक्तश्चौर्य, तदासक्तो द्यूतमित्यादिपापा- १. 'युक्त मिति पाठान्तरम् । तत्र-युक्तलगम् । २. 'तमदिशदिति युक्त पाठ । तपरिजनम् । अदिशत् ददौ ।३.चलितवृत्तस्तु , वृत्तशेष' मिति लिखितपुस्तकपाठो हृद्यः, प्रकृतोपयोगी च । ४. 'भक्षयता'इति प ठा०॥